SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ३३ अभि० पवन साहाय्येन वह्निः, शरत्कालसाहाय्येन सूर्यः, मदस्रावेण गजश्च यथा दुःसहा भवन्ति एवं बलवता युवराजेन खुणापि दिलोपः सुदुःसहो जातः । हिन्दी - वायु की सहायता से अग्नि तथा शरदऋतु में खुले आकाश को पाकर सूर्य और जवानी का मद बहने से हाथी जिस प्रकार प्रबल प्रचण्ड हो जाता है उसी प्रकार प्रतापी रघु की सहायता से राजा दिलीप भी शत्रुओं के लिये प्रभावशाली एवं प्रचण्ड हो गये ॥ ३७ ॥ नियुज्य तं होमसुरङ्गरक्षणे धनुर्धरं राजसुतैरनुद्भुतम् । अपूर्णमेकेन शतक्रत्पमः शतं क्रतूनामपविघ्नमाप सः ।। ३८ ।। सन्जीविनी - शतक्रतुरिन्द्रः उपमा यस्य स शतक्रतूपमः स दिलीपः । " शतं वै तुल्या राजपुत्रा देवा माशापाला:" इत्यादिश्रुत्या । राजसुतैरनुद्रुतमनुगतं धनुर्धरं तं रघु होमतुरंगाणां रक्षणे नियुज्य । एकेन क्रतुनाऽपूर्णमेकोनं क्रतूनामश्वमेधानां शतमपविघ्नमपगत विघ्नं यथा तथाऽऽप माप ॥ ३८ ॥ अन्वयः -- शतक्रतुषमः, सः, राजसुतैः, अनुद्भुतं धनुर्धरं, तं, होमतुरंगरक्षणे, नियुज्य, एकेन, अपूर्ण, क्रतूनां शतम्, अपविघ्नं, 'यथा स्यात्तथा' आप । वाच्य० - शतक्रतूपमेन तेन क्रतूनां शतम् आपे । 0 व्याख्या - शतं शतसंख्यकाः क्रतवः = अश्वमेषाः यस्य सः शतक्रतुः इन्द्रः, उपमा = उपमानं यस्य सः शतक्रतूपमः । सः = राजा दिलीपः । राज्ञां =राजन्यानां सुताः = ! = पुत्रास्तैः राजसुतैः । अनुद्रुतम् = अनुगतं । धरतीति धरः, धनुषः घर: धनुर्धरस्तं धनुर्धरं = चापधरं तं = रघु । होमार्थाः = यज्ञार्थास्तुरंगाः = घोटकाः, तेषां रक्षणं = रक्षा, तस्मिन् होमतुरंगरक्षणे । नियुज्य = व्यापार्यं । एकेन एकसंख्यकेन, क्रतुना अपूर्ण = न्यूनं क्रतूनाम् अश्वमेघानां शतं शतसंख्यापरिमितम् । अपगताः = नष्टाः, विघ्नाः = अन्तराया यत्र तत् अपविघ्नं 'विघ्नोऽन्तरायः प्रत्यूहः' इत्यमरः । 'यथा स्यात्तथा' भाप = प्राप्तवान् । - , समा० - शतं क्रतवो यस्य सः शतक्रतुः शतक्रतुः उपमा यस्य सः शतक्रतूपमः । राज्ञां सुताः राजसुताः, तै: राजसुतैः । धरतीति परः, धनुषः धरः धनुर्धरः, तं धनुर्धरम् । होमस्य तुरंग: होमतुरंग, होमतुरंगस्य रक्षणं होमतुरंगरक्षणम्, तस्मिन् होमतुरंगरक्षणे । न पूर्णमपूर्णम्, तत् अपूर्णम् । प्रपगतः विघ्नः यस्मात् तत् अपविघ्नम्, तत् । यद्वा अपगता विघ्ना यस्मिन् कर्मणि तद् यथा भवति तथेति क्रियाविशेषणम् । अभि० - इन्द्रतुल्यो राजा दिलीपोऽश्वमेधयज्ञ। यतुरंगरक्षणे रघु नियुज्य, एकोनशतमश्वमेषान् निविष्नं कृतवान् । हिन्दी - इन्द्र के समान प्रतापी दिलीप ने अश्वमेधयज्ञ के घोड़ों की रक्षा का भार राजकुमारों के साथ धनुर्धारी रघु को सौंपकर बिना विघ्न के एक कम सौ ( निन्यानबे ) ब पूर्ण कर लिये ॥ ३८ ॥ -
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy