SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः तमङ्कगारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि । उपान्तसम्मीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ॥ २६ ॥ संजीविनी-शरीरयोगजैः सुखैस्त्वचि त्वगिन्द्रयेऽमृतं निषिञ्चन्तं वर्षन्तमिव तं पुत्रमङ्कमारोप्य मुदाविर्भावादुपान्तयोः प्रान्तयोः संमीलितलोचनः सन् नृपश्चिरात्सुतस्पर्शरसशतां ययौ । रसः स्वादः ॥ २६ ॥ अन्वयः-शरीरयोगजैः, सुखैः, त्वचि, अमृतम् !नषिञ्चन्तम् , इव, तम् अङ्कम् आरोग्य, उपान्तसंमीलितलोचनः, “सन्" नृपः, चिरात् सुतस्पर्शरसज्ञतां, ययौ। वाच्य०-उपान्तसंमीलितलोचनेन “सता" नृपेण चिरात् सुतस्पर्शरसाता यये । व्याख्या-शरीरस्य = देहस्य, योगः सम्बन्धः स्पर्श इत्यर्थः, इति शरीरयोगस्तस्मात्, जातानि = उत्पन्नानि से: शरीरयोगजैः, सुखैः= आनन्दैः । त्वचि=त्वगिन्द्रिये, अमृतं = सुधा, निषिञ्चन्तं == वर्षन्तम् । इव=यथा। तं = पुत्रम् , अङ्क=क्रोडम् , उत्सङ्गमित्यर्थः । आरोग्य = संस्थाप्य । उपान्तयोः प्रान्तमागयोः, सम्मीलिते=निमीलिते, लोचने = नयने येन स उपान्तसम्मीलितलोचनः, 'सन्' नृपः = राजा दिलीपः। चिरात् = बहुकाला सुतस्य = पुत्रस्य स्पर्शः=आलिंगनमिति सुतस्पर्शः, तस्य रसः = स्वादस्तं जानाति == वेत्तीति सुतस्पर्शरसशः, तस्य भावस्तत्ता, तां सुतस्पर्शरसशता, ययौ प्राप्तः ।। समा०-शरीरस्य योगः शरीरयोगः, शरीरयोगाज्जातानि शरीरयोगजानि, तैः शरीरयोगजैः । उपान्तयोः सम्मीलिते लोचने यस्य स उपान्तसम्मीलितलोचनः । नून् पातीति नृपः । सुतस्य स्पर्शः सुतस्पर्शः, सुतस्पर्शस्य रसः सुतस्पर्शरसः, सुतस्पर्शरसं जानातोति सुतस्पर्शरसशः, मुतस्पर्शरसशस्य भावः सुतस्पर्शरसशता, तो सुतस्पर्शरसताम् । अमि०-पुत्रस्य रघोः शरीरस्पर्शजन्यैः सुखैः निमीलितनेत्रः सन् राजा दिलीपः पुत्रस्पर्श. रसशतायाश्चिरादनुभवं चकार । हिन्दी-शरीरस्पर्श से उत्पन्न सुखों के द्वारा मानो अमृत की वर्षा करने वाले रघु को गोद में बैठाकर आँखें बन्द किये हुए राजा दिलीप बहुत देर से पुत्रस्पर्श का आनन्द लेते थे। अर्थात् पुत्रस्पर्शानन्द से जड़ से हो जाते थे ॥ २६ ॥ अमंस्त चानेन पराय॑जन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम् । स्वमूर्तिभेदेन गुणाग्यवर्तिना पतिः प्रजानामिव सर्गमात्मनः ॥ २७ ॥ संजीविनी-स्थितेरमेत्ता मर्यादापालकः स नृपः पराय॑जन्मनोत्कृष्टजन्मनाऽनेन रघुणाऽन्वयं वंशम् । प्रजानां पतिर्ब्रह्मा। गुणाः सत्त्वादयः तेष्वग्रयेण मुख्येन सत्त्वेन वर्तते च्यापियत इति गुणाग्रथवर्ती तेन स्वस्य मूर्तिमेदेनावतारविशेषेण विष्णुनात्मनः सर्ग सृष्टिमिव स्थितिमन्तं प्रतिष्ठावन्तममस्त मन्यतेस्म। मन्यतेरनुदात्तत्वाट्टिप्रतिषेधः। अत्रोपमानोपमेययोरितरेतरविशेषपानीतरेतत्र योज्यानि । तत्र रघुपक्षे गुणा विद्याविनयादयः । “गुणोऽप्रधाने रूपादौ ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy