SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १३ तृतीयः सर्गः समा०-शच्या समा शचीसमा । उच्चः संश्रयः येषां ते उच्चसंश्रयाः, तैः उच्चसंश्रयैः । सूर्य गच्छन्तीति सूर्यगाः, न सूर्यगाः असूर्यगाः, तैः असर्थगैः। भाग्यस्य सम्पत् भाग्यसम्पत् , सूचिता माग्यसम्पत् यस्य सः सूचितभाग्यसम्पद् , तं सूचितमाग्यसम्पदम् । त्रीणि साधनानि यस्याः सा त्रिसाधना । न विद्यते क्षयः यस्य सः अक्षयः, तम् अक्ष यम् । अमि०-यथा प्रभावमंत्रोत्साहजा शक्तिः राशोऽक्षयं धनमुत्पादयति, एवमेव दिलीपभार्यापि पंचभिरुच्चकैः, अनस्तमितैर्ग्रहैः प्रथममेव सूचित भागधेयं पुत्रं जनयामास । हिन्दी-इसके पश्चात् इन्द्राणी के समान तेजवाली महारानी सुदक्षिणाने प्रसव का समय अर्थात् दसवां महीना आने पर, उसी प्रकार वह पुत्र उत्पन्न किया जिसके भाग्यशाली होने की सूचना, उच्चस्थान में बैठे तथा साथ में सूर्य के न होने से फल देने में समर्थ, पाँच ग्रह दे रहे थे, जिस प्रकार राजा तेज, उत्साह और ठोक मन्त्रणारूपी शक्ति से अचल सम्पत्ति पैदा कर लेता है ॥ १३ ॥ दिशः प्रसेदुर्मरुतो बवुः सुखाः प्रदक्षिणार्चिहं विरग्निराददे। बभूव सर्व शुमशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥ १४ ॥ सओविनी-तत्क्षणं तरिमन्क्षणे । “कालाधनोरत्यन्तसंयोगे" इति द्वितीया। दिशः प्रसेदुः प्रसन्ना बभूवुः। मरुतो वाताः सुखा मनोहरा ववुः । अग्निः प्रदक्षिणाचिः सन्हविराददे स्वीचकार । इत्थं सब शुमसूचकं बभूव । तथाहि तादृशां रघुपकाराणां भवो जन्म लोकाभ्युदयाय । भवतीति शेषः । ततो देवा अपि संतुष्टा इत्यर्थः ॥ १४ ॥ अन्वयः-तरक्षणं, दिशः, प्रसेदुः, मरुतः, सुखाः, ववुः, अग्निः, प्रदक्षिणार्चिः “सन्” हविः, आददे, 'इत्थं' सर्व, शुमशसि, बभूव, हि, तादृशां, भवः, लोकाभ्युदयाय "भवति"। वाच्य०-दिग्भिः प्रसेदे, मरुद्भिः सुखैः ववे, अग्निना हविराददे, सर्वेण शुभशंसिना बभूवे, हि तादृशां भवेनं लोकाभ्युदयाय भूयते। व्याख्या-तत्क्षणं =तस्मिन् क्षणे, दिशः = काष्ठाः । 'दिशस्तु ककुभः काष्ठाः' इत्यमरः । प्रसेदुः = प्रसन्ना बभूवुः । मरुतः वायवः, सुखाः= मनोहराः सुकरा इत्यर्थः, ववुः = वान्ति स्म। अग्निः = वाहः, दक्षिणं प्रगता इति प्रदक्षिणा, प्रदक्षिणा अचि: ज्वाला यस्य सः प्रदक्षिणाचिः, “सन्" हविः - हवनीयद्रव्यम् , आददे == स्वीचकार, त्यमिति शेषः, सर्वम् - अखिलं, शुभं शंसति तच्छीलमिति शुभशंसि - शुभसूचकं, बभूव=आसीत् , हि = यतः, तादृशां रघुसदृशजनानामित्यर्थः, भवः = उत्पत्तिः जन्म, लोकानां = जनानाम् , अभ्युदयाय = कल्याणाय, भवतीति शेषः । समा०-स चासो क्षणश्च तत्क्षणः तं तत्क्षणम् ( "कालावनोरत्यन्तसंयोगे" इति द्वितीया ) । दक्षिणं प्रगता प्रदक्षिणा, प्रदक्षिणा अचिर्यस्य सः प्रदक्षिणाचिः। शुभानि शंसितं शीलमस्येति शुभशंसि । लोकस्य अभ्युदयः लोकाभ्युदयः, तस्मै लोकाभ्युदयाय ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy