SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकान्ये हिन्दी-इसके बाद बच्चों की चिकित्सा करनेवाले बहुत से चतुर वैद्यों के द्वारा गर्भ की पुष्टि कर लेने पर, दसवें महीने में राजा दिलीप ने देखा कि शीघ्र पुत्र को जन्म देनेवाली सुदक्षिणा ऐसी लगती है जैसा कि वर्षा काल के प्रारम्भ में तुरन्त बरसने वाले मेवों से व्याप्त आकाश हो ॥ १२ ॥ ग्रहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सूचितमाग्यसम्पदम् । असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम् ॥ १३ ॥ सञ्जीविनी-ततः शच्येन्द्राण्या समा। 'पुलोमजा शचीन्द्राणी' इत्यमरः । सुदक्षिणा समये प्रसूतिकाले सति । दशमे भासीत्यर्थः । 'दशमे मासि जायते' इति श्रुतेः। उच्चसंश्रयैरुच्चसंस्थैस्तुङ्गस्थानगैरसूर्यगरनस्तमितैः कैश्चिधथासंभवं पञ्चभिर्य हैः सूचिता भाग्यस पद्यस्य तं पुत्रम् । त्रीणि प्रभावमन्त्रोत्साहात्मकानि साधनान्युत्पादकानि यस्थाः सा त्रिप्ताधला शक्तिः। 'शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः' इत्यमरः । अक्षयमर्थमित्र । असूत। 'पूमाणिगर्भविमोचने' इति धातुरात्मनेपदिषु पठ्यते । तस्माद्धातोः कर्तरि लङ् । अत्रेदमनुसंधेयम् --"अजवृषभमृगाजनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः। दशशिखिमनु युक्तिधीन्द्रियांशस्त्रिनवकविंशतिभिश्च तेऽस्तनीचाः ॥” इति सूर्याशीनां सप्तानां ग्रहाणां मेषवृषभादयो राशयः इलोकोक्तक्रमविशिष्टा उच्चस्थानानि, स्वस्वतुझापेक्षया सप्तमस्थानानि च नीचानि । तत्रोच्चेष्वपि दशमादयो राशित्रिंशांशा यथाक्रममुच्चेषु परमोच्चा नीचेषु परमनीचा इति जातकश्लोकार्थः ! अत्रांशस्त्रिशो भागः । यथाह नारदः-त्रिंशभागात्मकं लग्नम्' इति । सूर्य प्रत्यासत्तिर्ग्रहाणामस्तमयो नाम । तदुक्तं लघुजातके--'रविणास्तमयो योगो वियोगस्तू दयो भवेर' इति । ते स्त्रोच्चस्थाः फलन्ति नास्तगा नापि नीचगाः, तदुक्तं राजमृगाके--स्वोच्चे पूर्ण स्वर्भकेऽर्घ सुहृद्भे पादे द्विड्भेऽल्पं शुभं खेचरेन्द्रः । नीचस्थायो नास्तगो वा न किंचित्पादं नूनं स्वत्रिकोणे ददाति ।।" इति । तदिदमाह कविरुच्चसंस्थैरसूर्यगैरिति च । एवं सति यस्य जन्भकाले पञ्चप्रभृतयो ग्रहाः स्वोच्चस्थाः स एव तुङ्गो भवति । तदुक्तं कूटस्थीये---"सुखिनः प्रकृष्ट कार्या राजपतिरूपकाश्च राजानः। एकदित्रिचतुर्मिर्जायन्तेऽतः परं दिव्याः ॥” इति तदिदमाह पञ्चभिरिति ।। १३ ॥ अन्वयः-ततः, शचीसमा, समये "सत्ति" उच्चसंश्रयैः, असूर्यगैः पञ्चमिः प्रहैः, सूचितभाग्यसम्पदं, पुत्रं त्रिसाधना, शक्तिः, अक्षयम् , अर्थम् , इव असूत । वाच्य-शनीसमया सूचिनभाग्यसम्पद पुत्रः त्रिसापनया शक्त्याक्षयोऽर्थ व असूयत । व्याख्या-ततः तदनन्तरं, शच्या = इन्द्राण्या, समा=तुल्या, इति शचीसमा सुदक्षिणेति यावत् , समये = प्रसूतिकाले “सति" दशमे मासीत्यर्थः, उच्चः संश्रयः येषां ते. तैः उच्चसंश्रयः, उच्चस्थानस्थितैः, सूर्य गच्छन्तीति सूर्यगास्तैः सूर्यगः, न सूर्यगैः, असूर्य गैः = अनस्तमितेः, पञ्चभिः = पसंख्यकैः, ग्रहै: = "कैश्चित्" स्वेटः, सचिता - प्रकटिता, भाग्यस्य =भागधेयस्य "देवं दिष्टं भागधेयम्" इत्यमरः । सम्पत् = सम्पत्तिः, यस्य सः, तम् सूचितभाग्यसम्पदं, पुत्रं-सुतम् , त्रीणि= प्रभावमंत्रोत्साहात्मकानि, साधनानि = उपायाः= उत्पादकानि यस्याः प्ता त्रिसाधना, शक्तिः = प्रभावजादयः, दक्षयं = नाशरहितम् , अर्थ == धनम् , इव = यथा, प्रसूत - सुषुवे।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy