SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकान्ये जनोद्वीक्षणकौमुदीमुखम् । इक्ष्वाकोः कुलं इक्ष्वाकुकुलम् , तस्य इक्ष्वाकुकुलस्य । दुहृदः मावः दौर्हदम् , दौहृदस्य लक्षणं दौढ दलक्षणम् , तत् दौ«दलक्षणम् ।। ___अभि०-गर्भधारणानन्तरं सुदक्षिणा दिलीपस्याभिलषितं प्राप्तकालं तथा सहचरीवर्गस्य नेत्रोत्सबमिक्ष्वाकुवंशाविच्छेदकारणं गर्भलक्षणं धारयामास । हिन्दी-गर्भधारण के पश्चात् सुदक्षिणा ने कृशतादि गर्भ के लक्षणों को धारण किया, जो कि महाराज का सामयिक मनोरथ है और सुदक्षिणा की सखियों के नेत्रों के लिये आनन्दप्रद चन्द्रिका का आविर्भाव है ( अथवा सुदक्षिणा की सखियों के नेत्रों के लिये कौमुदी महोत्सव नामक दीपावली है ) और श्क्ष्वाकु के वंश को चलानेवाला है ॥ १।। शरीरसादादसमग्रभूषणा मुखेन साऽतक्ष्यत लोध्रपाण्दुना । तनुप्रकाशेन विचेयतारका प्रमातकल्पा शशिनेव शर्वरी ॥ २ ॥ सब्जीविनी-शरीरस्य सादात्कार्यादसमग्रभूषणा परिमिताभरपा लोध्रपुष्पेणेव पाण्डुना मुखेनोपलक्षिता सा सुदक्षिया। विचेया मृग्यास्तारका यस्यां सा तथोक्ता । विरलनक्षत्रेत्यर्थः। तनुप्रकाशेनाल्पकान्तिना शशिनोपलक्षितेषदसमाप्त प्रमाता प्रभातकल्पा। प्रभातादीषनेत्यर्थः । "तसिलादिष्वाकृत्त्वसुचः ।" इति प्रभातशब्दस्य पुंवद्भावः । शर्वरी रात्रिरिव । अलक्ष्यादृश्यत । शरीरसादादिगर्भलक्षपमाह वाग्भट:--'क्षामता गरिमा कुक्षेमूर्छा छदिररोचकम् । जम्मा प्रसेकः सदनं रोमराज्याः प्रकाशनम्" ॥ २ ॥ अन्वयः----शरीरसादात् , भसमप्रभूषणा, लोध्रपाण्डुना, मुखेन, "उपलक्षिता" सा विचेयतारका, तनुप्रकाशेन, शशिना, “उपलक्षिता" प्रभातकल्पा, शर्वरी, इव, अलक्ष्यत । वाच्य०-असमग्रभूषणां, तां, विचेयतारकां, प्रभातकल्पां शर्वरोमिवालक्षयन् । व्याख्या-शरीरस्य = देहस्य सादःr- काय, तस्मात् शरीरसादात् । असमग्राणि = असम्पूर्णानि, परिमितानि, भूषणानि=आमरणानि, यस्याः सा असमग्रभूषणा । लोधवत् = लोध्रपुष्पवत् , पाण्डु = पाण्डुर मिति, तेन लोध्रपाण्डुना "हरिणः पाण्डुरः पाण्डुरि"त्यमरः। . मुखेन आननेन, "उपलक्षिता = युक्ता" सा= सुदक्षिणा । विचेयाः = मृग्याः, परिगणनीयाः, तारकाः = नक्षत्राणि, यस्यां सा विचेयतारका, तनुः = स्वल्पः, प्रकाशः = कान्तिः, यस्य सः तेन तनुप्रकाशेन, शशिना = चन्द्रप्प, “उपलक्षिता" शर्वरी = रात्रिः, इव = यथा, अलक्ष्यत= अदृश्यत, जनैरिति शेषः । __ समा०–शरीरस्य सादः शरीरसादः, तस्मात् शरीरसादात् । न समग्राणि असमग्राणि, असमग्राणि भूषणानि यस्याः सा असमप्रभूषणा । लोधवत् पाण्डु लोध्रपाण्डु तेन लोध्रपाण्डुना। तनुः प्रकाशः यस्य सः तनुप्रकाशः, तेन तनुपकाशेन । विचेतुं योग्याः विचेयाः, विचेयाः तारकाः यस्याः सा विचेयतारका। प्रभातादीषदूना प्रभातकल्पा। शशः अस्यास्तीति शशो, तेन शशिना।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy