SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ महाकविकालिदास कृत श्री रघुवंश महाकाव्य तृतीय सर्ग अथेप्सितं मर्तुरुपस्थितोदयं सलीजनोद्वीक्षणकौमुदीमुखम् । निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दौईदलक्षणं दधौ ॥१॥ सञ्जीविनी-अथ गर्भधारणानन्तरं सुदक्षिणा। उपस्थितोदयं प्राप्तकालं भर्तुदिली. पस्येप्सितं मनोरथम् । नपुंसके भावे क्तः। पुनः सखीजनस्योदीक्षणानां दृष्टीना कौमुदीमुखं चन्द्रिकाप्रादुर्भावम् , यदा कौमुदी नाम दीपोत्सवतिथिः। तदुक्तं भविष्योत्तरे-'को मोदन्ते जना यस्यां तेनासौ कौमुदी मता' इति । तस्या मुखं प्रारम्भम् । सखीननोदीक्षणकौमुदीमहम् इति पाठं केचित्पठन्ति । इक्ष्वाकुकुलस्य संततेरनिच्छेदस्य निदानं मूलकारणम् । 'निदानं स्वादिकारणम्' इत्यमरः। एवंविधं दौईदलक्षणं गर्भचिह्नं वक्ष्यमाणं दधौ । स्वहृदयेन गर्भहृदयेन च द्विदया गर्मिणी। थथाह वाग्भट: "मातृनन्यस्य हृदयं मातुश्च हृदयं च तत् । संबद्धं तेन गर्भिण्याः श्रेष्ठं श्रद्धामिमाननम् ॥” इति । तत्संबन्धित्वाद् गों दौर्हदमित्युच्यते । सा च तद्योगाद्दौर्हदिनीति । तदुक्तं संग्रह "द्विहृदयां नारी दौईदिनीमाचक्षते" इति । अत्र दौर्हदलक्षणस्येप्सितत्वेन कौमुदीमुखत्वेन च निरूपणाद्रपकालंकारः । अस्मिन्सगें वंशस्र्थ वृत्तं-"जतौ तु वंशस्थमुदीरितं नरौ" इति तल्लक्षणात् ॥ १ ॥ अन्वयः-अथ, सुदक्षिणा, उपस्थितोदयम् , भर्तुः, ईप्सितम्, सखीजनोद्वीक्षणकौमुदीमुषम् , इक्ष्वाकुकुहस्य, सन्ततेः, निदानं, दौहदलक्षणं, दधौ । वाज्य-सुदक्षिणया दौर्हदलक्षणं दधे । व्याख्या-अथ = गर्भधारणानन्तरम् । सुदक्षिणा = दिलीपभार्या । उपस्थितः = प्राप्तः, उदयः = समयः यस्य तत् , उपस्थितोदयम् । भर्तुः= स्वामिनो दिलीपस्य, ईप्सितं =मनोरथम्। सखीजलानां सहचरीणां, उदोक्षणानि-नेत्राणि, इति सखोजनोदीक्षणानि, कौ= पृथिव्या मोदन्ते जना अनेनेति कुमुदश्चन्द्रस्तस्येयं कौमुदी, सखीननोदोक्षणानां कौमुदी- चन्द्रिका । "चन्द्रिका कौमुदी ज्योत्स्ना" इत्यमरः। तस्याः मुखं =प्रादुर्भावं, तथोक्तम् इक्ष्वाकोः कुलवंशस्तस्य इक्ष्वाकुकुलस्य । सन्ततः= परम्परायाः, अविच्छेदस्येत्यर्थः, निदानम् = श्रादिकारणम् । नानाविधाभिलाषेण दुष्टं हृद् यस्याः सा दुईत् , तस्या भावः कर्म का दौहृदं, तस्य दौ«दस्य = गर्भस्य, लक्षणं = चिह्नमिति तत् दौर्हदसमणं, दधीधनवती। ___ समा०–उपस्थितः उदयः यस्य तत् उपस्थितोदयम् , तत् उपस्थितोदयम् । सखीति जनाः सखोजनाः, सखीजनानाम् उदोक्षणानि सखोजनोद्वीक्षणानि, सखीजनोदीक्षणानां कौमुदी सखीजनोद्वीक्षणकौमुदी, सखीजनोदीक्षणकौमुथा मुखं सखीननोदीक्षपकौमुदीमुखं, तत् सखी
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy