SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये 'व्याख्या-महषः = वशिष्ठस्य, अनुनयः = तान्त्वनं, च = वा, अन्यपयस्विनीनां -प्रशस्तक्षीरवतीनाम् इतर धेनूनाम् । विश्राणनात = दानात् , कथं नु = केन प्रकारेण, शक्यः = योग्यः, न शक्य इत्यर्थः माँ = धेनु, सुर मेः = कामधेनोः, अनूनाम् = अन्यूनाम् , तत्तुल्यामित्यर्थः अवेहि = जानीहि त्वमिति शेषः, अस्याम् = एतस्यां गवि, त्वया सिंहेन, प्रहृतं = आक्रमणं तु प्रहाररित्वत्यर्थः, रुद्रस्य = महादेवस्य. ओजः= बलम् ,देन रुद्रौजसा= ईश्वरसामर्थ्यन कृतम् , नतु स्वसामध्यन । समा०-य: आसामस्तीति पयस्विन्यः, अन्याश्च ताः पयस्विन्यश्च अन्यपयतिन्यः, तासाम् अन्यपयस्विनीनाम् । महान् चासो ऋषिश्च महर्षिः, तस्य महः। न ऊना अनूना, ताम् अनूनाम् । रुद्रस्य ओज: रुद्रीजः, तेन रुद्रौजसा।। अमि०-अन्य प्रशस्तगोप्रदानेन वशिष्ठस्य क्रोधशान्तिनं मवितुमर्हति, यतो हि इयं नन्दिनी कामचेनुतुल्या वर्तते, अस्यां यदाक्रमणं त्वया कृतं तत्तु शिवप्रभावेण नतु स्वप्रभावेण । हिन्दी-महर्षि वशिष्ठ के कोप की शान्ति दूसरी दूध देने वाली गोषों के देने से नहीं की जा सकती, क्योंकि यह गौ साधारण नहीं, इसे कामधेनु के बरावर ही समझो, इसके ऊपर जो तुमने आक्रमण किया है वह तो भगवान् शिव के प्रभाव से किया, न कि स्वतामय से ।। ५४ ।। तहिं किं चिकीर्षितमित्यत्राह सेयं स्वदेहाणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः । न पारणा स्याद्विहता तवैवं मवेदलुप्तश्च मुनेः क्रियार्थः ।। ५५ ।। सब्जीविनी-सेय गौर्मया। निष्क्रीयते प्रत्याहियतेऽनेन परगृहोतमिति निष्क्रयः प्रतिशीर्षकम् । "एरच्" इत्यच्प्रत्ययः । स्वदेहार्पणमेव निष्क्रयस्तेन भवत्तस्त्वत्तः । पञ्चम्यास्तसिल् । मोचयितुं न्याय्या न्यायादनपेता! युक्तत्यर्थः। 'धर्मपथ्यर्थन्यायादनपेते' इति यत्प्रत्ययः । एवं सति तव पारणा भोजनं विहता न स्यात् । मुनेः क्रिया होमादिः स एवार्थः प्रयोजनम् । स चालुप्तो भवेत् । स्वप्राणव्ययेनापि स्वामिगुरुधनं संरक्ष्यमिति माव ।। ५५ ।। अन्वयः-सा, श्यं, मया, स्वदेहार्पणनिष्क्रयेण, भवत्तः, मोचयितुं, न्याय्या, “एवं सति" तव, रारणा, विहता, न, स्यात मुनेः, क्रियार्थः च अलुप्तः, भवेत् । वाव्य-तयाऽनगा न्याय्यया "भूयते", पारणया विहतया न “भूयेत" क्रियार्थेनालुप्ते भूयेत । व्याख्या-सा=पूर्वोक्ता, इयम् = एषा गौः, मया=दिलीपेन, स्वस्य देहः स्वदेहस्तस्य स्वदेहस्य - निजशरीरस्य. अपणं दानं, तदेव निष्क्रयः, मूल्यं तेन तयक्तेन, भवत्तः -- त्वत्तः = सिंहात् , मोचयितुं = त्यायितुं, न्याय्या = युक्ता, “एवं सति'' तव==भवतः= सिंहस्य, पारणा = व्रतान्तभोजनं विहता= नष्टा, न =नहि, स्यात् =भवेत् , मुनेः-महर्षेः वशिष्ठस्य, क्रिया - होमादिः एव अर्थः = प्रयोजनमिति क्रियार्थः, अलुप्तः = अनष्टः, मवेत् स्यात् । समा०---स्वस्य देह स्वदेहः, स्वदेहस्य अर्पणं स्वदेहार्पणम् , स्वदेहार्पणमेव निष्क्रयः स्वदेहार्पण. निष्क्रयः, तेन स्वदेहार्पणनिष्क्रयेण ! न्यायाद् अनपेता न्याय्या । न लुप्तः अलुप्तः। क्रियेव अर्थः क्रियार्थः । अभि०-सेयं नन्दिनी मया स्वशरीरप्रदानविनिमयेन, त्वत्तः मोचयितुं युक्ता, एवं सति बुभुक्षितस्य तव पारपणा नष्टा न मवेत , मभ गुरोः वशिष्ठस्य हीमादेर पि विधी रक्षितो मवेत् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy