SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ २२ रघुवंश महाकाव्ये प्रत्यग्रहीदिति हेतोरतौ दंपती ननन्दतुः । पूजास्वीकारस्थानन्द हेतुत्वमाह । मक्त्येति — पूज्येष्वनुरागो भत्तिः तयोपपन्नेषु विषये तद्विधानाम् । तस्याः धेन्वाः विधेव विधा प्रकारो येषां तेषाम् । महतामित्यर्थः । प्रसादस्य चिह्नानि लिङ्गानि पूजास्वीकारादीनि पुरः फलानि पुरोगतानि प्रत्यासन्नानि फलानि येषां तानि हि । अविलम्बित फल सूचक लिङ्गदर्शनादानन्दो युज्यत इत्यर्थः ॥ २२॥ ' अन्वयः - सा, वरसोत्सुका, आप, स्तिमिता, "सती" सपर्याम्, प्रत्यग्रहीत्, इति, तौ, ननन्दतुः, मक्त्या, उपपन्नेषु, तद्विधाना, प्रसादचिह्नानि, पुरः फलानि हि । वाच्य० – तया स्तिमितया, सत्या, सपर्या प्रत्यग्राहि इति ताभ्यां ननन्दे, प्रसादचिह्नः पुरः फलैः भूयते इति शेषः । " = व्याख्या - सा = धेनुः, वरसे शिशौ, उत्सुका उत्कण्ठिता, अपि स्तिमिता = निश्चला, "सती" सपथ = पूर्जा, प्रत्यग्रहीत् = स्वीचकार, इति हेतोः, तौ = सुदक्षिणा दिलीप; ननन्दतुः - मुमुदाते, = आनन्दं प्रापतुरित्यर्थः । मक्त्या = श्रद्धया, उपपन्नेषु युक्तंषु, पूज्यानुरागयुक्तेष्वित्यर्थः । तस्या:-धेन्वाः, विधा इव विधा= प्रकारः येषां ते, तेषां तद्विधानाम् = महताम् प्रसादस्य = प्रसन्नतायाः, चिह्नानि, लक्षपानि, इति, प्रसादचिह्नानि = पूजास्वीकारादीनि पुरोगतानि = प्रत्यासन्नानि फलानि लामा, येषां तानि, पुरः फलानि, हि निश्चयः । , " समा० - वरसे उत्सुका वत्सोत्सुका । सा च स च तौ । तस्याः विधेव विधा येषां ते तद्विषाः, येषां तद्विधानाम् । प्रसादस्य चिह्नानि प्रसादचिह्नानि । पुरः फलं येषां तानि पुरः फलानि । अभि० - वत्सोत्कण्ठितापि वशिष्ठधेनुः यत् निश्चला सती पूर्जा स्वीकृतवती, अत सोमाविनी स्वाभीष्टसिद्धि मत्वा सुदक्षिणा दिलीपौ, ननन्दतुः । हिन्दी - अपने बछड़े को देखने के लिए उत्कण्ठित होते हुए भी निश्चल होकर जो नन्दिनी ने सुदक्षिणा के द्वारा की गई पूजा को स्वीकार किया, इससे राजा रानी प्रसन्न हुए । क्योंकि अपने अनुरागी जनों के विषय में, नन्दिनी सदृश महानुभावों की प्रसन्नता के लक्षण, शीघ्र मनोरथ पूर्ण होने का निश्चय प्रकट करते हैं ॥ २२ ॥ गुरोः सदारस्य निपीड्य पादौ समाप्य सान्ध्यं च विधिं दिलीपः । दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्न रिपुर्निषण्णाम् ॥ २३ ॥ सन्जीविनी - भुजोच्छिन्नरिपुदिलीपः । सदारस्य दारैररुन्धत्या सह वर्तमानस्य गुरोः । उभयोरपीत्यर्थ: । 'भार्या जायाथ पुंभूम्नि दारा:' इत्यमरः । पादौ निपीड्यामिवन्ध । सान्ध्य सध्यायां विहितं विषिमनुष्ठानं च समाप्य । दोहावसाने निषण्णामासीनां दोग्ध्री दोहनशीलाम् । "तृन्" इति तृन्प्रत्ययः धेनुमेव पुनर्भेज सेवितवान् । दोग्ध्रीमिति निरुपपद प्रयोगात्कामधेनुत्वं गम्यते ॥ २३ ॥ अन्वयः - भुजोच्छिन्नरिपुः, दिलीपः, सदारस्य, गुरोः, पहौ, निपीडय, सान्ध्यं, विधि, च, समाप्य दोहावसानं, निषण्णां, दोग्ध्रीम्, एव, पुनः, भेजे । वाध्य० -- भुजोच्छिन्नरिपुष्षा दिलीपेन, निषण्णा दोग्ध्री पुनः मेजे । व्याख्या—भुजाभ्यां= बाहुभ्याम्, उच्छिन्नाः = विनाशिताः, रिपवः = शत्रयो येन सः, भुनो
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy