SearchBrowseAboutContactDonate
Page Preview
Page 1294
Loading...
Download File
Download File
Page Text
________________ ४२० रघुवंशे , योगतः लोकान् = भुवनानि पालयन्ति = रक्षन्तीति लोकपालास्तेषां लोकपालानाम् = इन्द्रवरुणादीनां पञ्चानां पूरणः पञ्चमस्तं पञ्चमं = पञ्चत्वसंख्यापूरकम् ऊचुः कथयामासुः, चतुण्णां लोकपालानां मध्येऽतिथिं पञ्चमं कथयन्ति स्म जनाः इत्यर्थः । महतां भूतानां = पृथिव्यादिमहाभूतनां पंचानां षण्णाम् पूरणः षष्ठस्तं षष्ठं = षट्संख्यापूरकम् ऊचुः। एवम् भुवं = पृथिवीं बिभ्रतीति भूभृतः। कौ = पृथिव्यां लीयन्ते कुलाः-- कुलसंशकाश्च ते भूभृतः = महेन्द्रमलयसह्यादयः तेषां कुलभूभृताम् अष्टानां पूरण अष्टमः तम् अष्टमम् = अष्टसंख्यापूरकम् ऊचुः। सप्त कुलपर्वताः सन्ति, तेषामेनमतिथिम् अष्टममूचुरित्यर्थः ।। समासः-लोकानां पालाः लोकपालास्तेषां लोकपालानाम् । कुलाश्च ते भूभृतस्तेषां कुलभूभृताम् । समानः धर्मः येषां ते सधर्माणस्तेषां भावः साधर्म्य तेन योगः साधर्म्ययोगस्तस्मादिति साधर्म्ययोगतः। हिन्दी-उस राजा अतिथि को, इन्द्रादियों के साथ एक-से धर्म के संबन्ध होने के कारण लोग, पांचवा लोकपाल, और छठा महाभूत, तथा आठवां कुलपर्वत कहने लगे थे। अर्थात् लोक की रक्षा करने से पांचवा लोकपाल, और परोपकार करने से छठा महाभूत, तथा पृथिवी को धारण करने से आठवां कुल पर्वत कहने लगे थे। विशेष-चार लोकपाल इन्द्रादि, पांच महाभूत पृथिवी जलाकाशादि, और सातकुलपर्वत, महेन्द्रः, मलयः, सह्यः, शुक्तिमान् , ऋक्षमान, विन्ध्यः, पारियात्र, होते हैं ॥ ७८ ॥ दूरापवर्जितच्छत्रैस्तस्याज्ञां शासनार्पिताम् । दधुः शिरोमि पाला देवाः पौरंदरीमिव ॥ ७९ ॥ भूपालाः शासनेषु पत्रेष्वपितामुपन्यस्तां तस्य राज्ञः आशाम् । देवाः पौरंदरीमैन्द्रीमाज्ञामिव । दूरापवर्जितच्छत्रे(रात्परिहृतातपत्रैः शिरोभिर्दधुः ॥ अन्वयः-भूपालाः शासनापितां तस्य आशां, देवाः पौरन्दरीम् इव दूरापवर्जितच्छत्रैः शिरोभिः दधुः। व्याख्या-भुवं = पृथिवीं पालयन्ति=रक्षन्तीति भूपालाः=राजानः शासनेषु =आज्ञापत्रेषु अर्पिता दत्ता तां शासनापितां तस्य = राज्ञः अतिथेः आशाम् =आदेशं दीव्यन्तीति देवाः = अमराः पुराणि दारयतीति पुरन्दरः= इन्द्रः, पुरन्दरस्य इयं पौरन्दरो तां पौरन्दरीम् = ऐन्द्रीम् आशाम् इव = यथा दूरात् = असमीपात् अपवर्जितानि = त्यक्तानि अपहृतानि छत्राणि = आतपत्त्राणि यैस्तानि तैः दूरापवर्जितच्छत्रैः शिरोभिः = मस्तकैः दधुः = धारयामासुः, वहन्ति स्मेत्यर्थः। समासः-शासनेषु अर्पिता शासनार्पिता तां शासनापिताम् । दूरे अपवर्जितानि छत्राणि यैस्तानि दूरापवर्जितच्छत्राणि तैः दूरापवर्जितच्छत्रैः। भुवः पालाः भूपालाः। हिन्दी—जिस तरह सारे देवता इन्द्र की आशा को शिरोधार्य ( भक्ति प्रेम से मानना )
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy