SearchBrowseAboutContactDonate
Page Preview
Page 1293
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः समासः-परेषामभिसन्धानं परं यस्मिन् तत् पराभिसन्धानपरम् । हिन्दी-अश्वमेध यज्ञ करने के लिये, जीतने की इच्छा वाले राजा अतिथि की दिग्विजय यात्रा, यद्यपि शत्रुओं को जैसे भी हो जीतना ही उसका मुख्य काम था। परन्तु फिर भी वह यात्रा धर्मयुक्त ही थी । अर्थात् अधर्म नहीं किया ॥ ७६ ॥ एवमुद्यन्प्रभावेण शास्त्रनिर्दिष्टवर्त्मना । वृषेव देवा देवानां राज्ञां राजा बभूव सः ॥ ७७ ॥ एवं शास्त्रनिर्दिष्टवर्मना शास्त्रोपदिष्टमार्गेण प्रभावेण कोशदण्डजेन तेजसा । ‘स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । उद्यन्नुयुञ्जानः। वृषा वासवो देवानां देवो देवदेव इव राज्ञां राजा राजराजो बभूव ॥ अन्वयः-एवं शास्त्रनिर्दिष्टवर्त्मना प्रभावेण उद्यन् सः वृषा देवानाम् देवः इव राशां राजा बभूव। व्याख्या-एवं = पूर्वोक्तप्रकारेण शास्त्रेषु =मन्वादिनीतिशास्त्रेषु निर्दिष्टं - बोधितमुपदिष्टं वर्म=मागों यस्य स शास्त्रनिर्दिष्टवा तेन शास्त्रनिर्दिष्टवर्मना भवत्यनेन भावः, प्रकृष्टो भावः प्रभावस्तेन प्रभावेण-कोशदण्डजेन प्रतापेन उद्यन = युञ्जानः उद्यम कुर्वन्नित्यर्थः सः=राजा अतिथिः वर्षतीति वृषा = वासवः इन्द्रः दीव्यन्तीति देवास्तेषां देवानां = त्रिदशानां देवः = स्वामी देवदेवः, इत्यर्थः। इव = यथा राज्ञां = भूपालानां राजा = शासकः राजेन्द्रः इत्यर्थः, बभूव = जातः। समासः-शास्त्रेषु निर्दिष्टं वर्त्म यस्य स शास्त्रनिर्दिष्टवा तेन शास्त्रनिर्दिष्टवर्मना । हिन्दी-इस प्रकार शास्त्र में बताए गए प्रकार से कोश दण्ड से उत्पन्न प्रभाव से ( अर्थात् धर्म नीति के अनुसार चलने से ) उद्योग ( व्यवहार ) करने से राजा अतिथि वैसे ही राजराजा ( राजेन्द्र ) बन गए जैसे इन्द्र देवताओं का देव ( देवेन्द्र ) बना है ॥ ७७ ॥ पञ्चमं लोकपालानामूचुः साधर्म्ययोगतः । भतानां महता षष्ठमष्टम कुलभूभृताम् ॥ ७८ ॥ तम् राजानमिति शेषः। साधर्म्ययोगतो यथाक्रमं लोकसंरक्षणपरोपकारभूधारणरूपसमानधर्मत्वबलाल्लोकपालानामिन्द्रादीनां चतुर्णां पञ्चममूचुः। महतां भूतानां पृथिव्यादीनां पञ्चानां षष्ठमूचुः । कुलभूभृतां कुलाचलानां महेन्द्रमलयादीनां सप्तानामष्टममूचुः ॥ अन्वयः-"तं राजानमिति शेषः" साधर्म्ययोगतः लोकपालानां पञ्चमम् ऊचुः, महतां भूतानां षष्ठं, कुलभूभृतां च अष्टमम् ऊचुः । ___ व्याख्या-"तं राजानं जनाः" समानः धर्मः= लोकरक्षणं परोपकारः भूधारणरूपं च येषां ते सधर्माणः तेषां भावः साधर्म्य तस्य योगः = संबन्धः, इति साधर्म्ययोगस्तस्मात् इति साधर्म्य
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy