SearchBrowseAboutContactDonate
Page Preview
Page 1229
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः ३५५ थपकी दे देकर जल ठोक रही हैं, उसे सुनकर मोर प्रसन्न होकर बोल कर इनका अभिनन्दन कर रहे हैं ॥ ६४ ॥ संदष्टवत्रेष्ववला नितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्याः । अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥ ६५ ॥ संदष्टवस्त्रेषु जलसेकात्संनिष्टांशुकेष्वबलानां नितम्बेष्वधिकरणेष्विन्दुप्रकाशेन ज्योत्स्नयान्तरिन्यावृतानि यान्युडून नक्षत्राणि तत्तुल्याः । मुक्तामयत्वादिति भावः । अमी जलापूरितसूत्रमार्गाः । निश्चला इत्यर्थः । रशना एव कलापा भूषाः । 'कलापो भूषणे बहें' इत्यमरः । मौनम् । निःशब्दतामित्यर्थः । भजन्ते ॥ अन्वयः - सन्दष्टवस्त्रेषु अबलानितम्बेषु इन्दुप्रकाशान्तरितोडुतुल्याः अमी जलापूरितसूत्रमार्गाः, रशनाकलापाः मौनं भजन्ते । व्याख्या – सन्दष्टानि = जलसेकात् संश्लिष्टानि वस्त्राणि = अंशुकानि येषु ते तेषु सन्दष्टवस्त्रेषु अबलानाम् = अन्तःपुरस्त्रीणां नितम्ब्यन्ते, निभृतं तम्यन्ते कामुकैरिति वा नितम्बास्तेषु नितम्बेषु = स्त्रीकटीपश्चाद्भागेषु इन्दोः = चन्द्रस्य प्रकाशः = ज्योत्स्ना, तेन अन्तरितानि = आच्छादितानि यानि उडूनि = नक्षत्राणि इति इन्दुप्रकाशान्तरितोडूनि तेषां तुल्याः = समानाः इति इन्दुप्रकाशान्तरितोडुतुल्याः अमी = पुरो वर्तमानाः, सूत्राणां = तन्तूनां मार्गाः = छिद्राणीत्यर्थः, इति सूत्रमार्गाः, जलेन = सलिलेन आ = समन्तात् पूरिताः = व्याप्ताः सूत्रमार्गाः येषां ते जलापूरितसूत्रमार्गाः निश्चला इत्यर्थः । रशना = मेखला एव कलापाः = भूषणानि, इति रशना - कलापाः मुनेः भावः कर्म वा मौनं तत् मौनम् = अभाषणं भजन्ते = सेवन्ते, मौना भवन्तीत्यर्थः । “कलापो भूषणे बहें,” “मौनमभाषणमि'ति चामरः । समासः– सन्दष्टानि वस्त्राणि येषु ते तेषु सन्दष्टवस्त्रेषु । इन्दोः प्रकाशः इन्दुप्रकाशस्तेन अन्तरितानि यानि उडूनि तेषां तुल्याः इति ते इन्दुप्रकाशान्तरितोडुतुल्याः । जलेन आपूरितः सूत्राणां मार्गः येषां ते जलापूरितसूत्रमार्गाः । रशना एव कलापाः रशनाकलापाः । अबलानां नितम्बास्तेषु । चिपक जाने से भरे हुए हैं ढोरे हिन्दी - और देखों ! रानियों के नितम्बों पर भींगे हुए स्वच्छ वस्त्रों के चान्द की चान्दनी से ढके हुए तारों के समान हो दीख रहे, तथा जल से जिनके ऐसे ये इनकी तगडियों के मोती घुंघरुं 'हिलने पर' भी मौन हो रहे हैं । अर्थात् तगड़ी के घुंघरुं सुफेद साड़ी के भींग कर चिपकने से चान्दनी से ढकें तारों के जैसे हो रहे हैं और उल कूद मचाने पर भी पानी भर जाने से बज भी नहीं रहे हैं ॥ ६५ ॥ I एताः करोत्पीडितव रिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः । वक्रेतराग्ररल कैस्तरुण्यश्चूर्णारुणान्वारिलवान्वमन्ति ॥ ६६ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy