SearchBrowseAboutContactDonate
Page Preview
Page 1228
Loading...
Download File
Download File
Page Text
________________ ३५४ रघुवंशे नाभिः, तस्याः कान्तिः =शोभा, तस्याः नतनाभिकान्तेः, आवर्तस्य = जलभ्रमस्य शोभा = कान्तिरिति आवर्तशोभा गभीरनाभिसदृशः अम्भसा भ्रम इत्यर्थः । “प्राण्यंगे द्वयोरि"ति मेदिनो । भ्रवां = नेत्रोपरिभागरथरोमराजीनां भंगः = तरंगः स्तनानां = कुचानां द्वन्द्वीभूय चरन्तीति द्वन्द्वचराः = चक्रवाकाः, उपमानमिति सर्वेषु सम्बध्यते। समासः-रूपाणाम् अवयवाः रूपावयवारतेषां उपमानानीति रूपावयवोपमानानि । नतश्चासौ नाभिः नतनाभिरतरय कान्तिस्तस्याः नतनाभिकान्तेः। आवर्तस्य शोभा आवर्तशोभा। न दूरवतीनि इति अदूरवर्तीनि । हिन्दी-और देखो ! इन सुन्दर स्त्रियों के अंगों के सदृश ( उपमान ) जो वस्तु प्रसिद्ध हैं वे सब इनके पास ही आ गई हैं, जैसे--इनकी गहरी नाभी की कान्ति के समान जल का भँवर है और भौहों के समान जल की तरंगे हैं। तथा जोड़े से रहने वाले चकवा चकवी इनके रतनों के समान हैं। ये सब इनके आस-पास ही घूम रहे हैं ॥ ६३ ॥ तीरस्थलीबहिभिरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानम् । श्रोत्रेषु संमूर्च्छति रक्तमासां गीतानुगं वारिमृदङ्गवाद्यम् ॥ ६४ ॥ उत्कलापैरुच्बह: प्ररिनग्धा मधुराः केका येषां तैस्तीरस्थलीषु स्थितैर्बहिभिर्मयूरैरभिनन्धमानं रक्तं श्राव्यं गीतानुगं गीतानुसार्यासां स्त्रीणां संबन्धि वार्येव मृदङ्गस्तस्य वाद्यं वाद्यध्वनिः श्रोत्रेषु संमूर्च्छति व्याप्नोति ॥ अन्वयः-उत्कलापैः प्ररिनग्धकेकैः तीरस्थलीबहिंभिः अभिनन्द्यमानम् रक्तम् गीतानुरागम् आसां वारिमृदंगवाद्यं श्रोत्रेषु संमूर्च्छति। व्याख्या-उत् = ऊर्ध्वम् , उच्चैः कलापः = बह येषां ते तैः उत्कलापैः प्रकर्षेण स्निग्धाः = मधुराः केकाः = मयूरवाचः येषां ते तैः प्रस्निग्धकेकैः “केका वाणी मयूरस्य" इत्यमरः। तीरस्य = तटस्य स्थलीषु भूमिषु स्थिताः ये बहिणः =मयूरास्तैः तोरस्थलीबहिंभिः अभिनन्द्यते इति अभिनन्धमानम् = प्रशस्यमानम् रक्तं = श्राव्यम् गीतं=गानमनुगच्छतीति गीतानुगं = गीतानुसारि आसाम् = अन्तःपुरसुन्दरीणाम् संबन्धि वारि= जलमेव मृदंगः =मुरजः तस्य वाद्यं = वाघध्वनिरिति वारिमृदंगवाद्यम् श्रोत्रेषु =कर्णेषु संमूर्च्छति = व्याप्नोति । समासः-उत् कलापः येषां ते तैः उत्कलापैः । प्रस्निग्धाः केकाः येषान्ते तैः प्रस्निग्धकेकैः । तीरस्य स्थली तीरस्थलो तत्र स्थिताः ये बहिणस्तैः तीरस्थलीबहिमिः। गोतस्य अनुगं गीतानुगम् । वारि एव मृदंगः वारिमृदंगस्तस्य वाद्यमिति वारिमृदंगवाद्यम् । हिन्दी-देखो ! ऊपर को पूंछ उठाये हुए, मधुरवाणीवाले, तथा सरयू के तट की जमीन में खड़े इन मोरों से अभिनन्दन किया गया, और गाने के समान कर्णप्रिय, जलरूपी मृदंग की ध्वनि कानों में भर रही है। अर्थात्--गीत गा कर मृदंग बजाने के समान जो ये सुन्दरियाँ
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy