SearchBrowseAboutContactDonate
Page Preview
Page 1213
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः ३३९ सा मन्दुरासंश्रयिमिस्तुरंगैः शालाविधिस्तम्भगतैश्च नागैः । पूराबमासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ॥ ४१ ॥ विपणिस्थानि पण्यानि क्रयविक्रयाहवस्तूनि यस्याः सा। ‘विपणिः पण्यवीथिका' इत्यमरः । सा पूरयोध्या मन्दुरासंश्रयिभिरश्वशालासंश्रयणशीलैः। 'वाजिशाला तु मन्दुरा' इत्यमरः । 'जिदृक्षि-' इत्यादिनेनिपत्ययः। तुरंगैरश्वैः। शालासु गृहेषु ये विधिना स्थापिताः स्तम्भास्तान्गतैः प्राप्तै गैश्च । सर्वाङ्गेषु नद्धान्याभरणानि यस्याः सा नारीव । आबभासे ॥ __ अन्वयः-विपणिस्थपण्या सा पूः मन्दुरासंश्रयिभिः तुरंगैः, शालाविधिस्तम्भगतैः नागैः सर्वागनद्धाभरणा नारी इव आबभासे । ___ व्याख्या–विपणन्तेऽत्र विपणिः, विपणौ = पण्यवोथिकायां तिष्ठन्ति इति विपणिस्थानि पण्यानि =क्रयविक्रययोग्यवस्तूनि यस्याः सा विपणिस्थपण्या सा=प्रसिद्धा पूः = नगरी अयोध्या मन्दन्तेऽत्र मन्दुरा, मन्दुरां=वाजिशालां संश्रयन्ते तच्छोलाः मन्दुरासंश्रयिणः तैः मन्दुरासंश्रयिभिः, अश्वशालास्थितरित्यर्थः। तुरंगैः=अश्वैः विधिना=विधानेन स्थापिताः स्तम्भाः = यूपाः, विधिस्तम्भाः। शालासु = गजगृहेषु ये विधिस्तम्भाः, इति शालाविधिस्तम्भाः, तान् गताः= प्राप्ताः, तत्र बद्धा इत्यर्थः, तैः शालाविधिस्तम्भगतैः, नागैः = हस्तिभिश्च सर्वाणि च तानि अंगानि सर्वांगानि, सर्वांगेषु = अखिलावयवेषु नद्धानि=धारितानि, आभरणानि = भूषणानि यस्याः सा सर्वांगनद्धाभरणा नारी = स्त्री इव=यथा आबभासे = समन्तात् शुशुभे। . समासः-मन्दुरायां संश्रयिणस्तैः मन्दुरासंश्रयिभिः। विधिना स्थापिताः स्तम्भाः, विधिस्तम्भाः शालासु ये विधिस्तम्भास्तत्र गतास्तैः शालाविधिस्तम्भगतैः। विपणिस्थानि पण्यानि यस्याः सा विपणिस्थपण्या । सर्वेषु अंगेषु नद्धानि आभरणानि यस्याः सा सर्वांगनद्धाभरणा । हिन्दी जिसके बाजारों में खरीद बिक्री को वस्तुएँ सजाकर रखी हैं ऐसी वह अयोध्या नगरी, घुड़शाला में बन्धे घोड़ों से, तथा हाथियों की शालाओं में विधि से गाड़े गये खूटों में बन्धे हाथियों से ऐसी सुन्दरी लग रही थी मानों सारे शरीर में आभूषण पहने हुई कोई स्त्री हो ॥ ४१॥ वसन्स तस्यां वसतौ रघूणां पुराणशोभामधिरोपितायाम् । न मैथिलेयः स्पृहयांबभूव भत्रे दिवो नाप्यलकेश्वराय ॥ ४२ ॥ स मैथिलेयः कुशः पुराणशोभां पूर्वशोभामधिरोपितायां तस्यां रघूणां वसतावयोध्यायां वसन् । दिवो भत्रे देवेन्द्राय तथाऽलकेश्वराय कुबेरायापि न स्पृहयांबभूव । तावपि न गणयामासेत्यर्थः । 'स्पृहेरीप्सितः' इति संप्रदानत्वाच्चतुर्थी । एतेनायोध्याया अन्यनगरातिशायित्वं गम्यते ॥ अन्वयः-सः मैथिलेयः पुराणशोभाम् अधिरोपितायां तस्यां रघूणां वसतौ वसन् दिवः भत्र "तथा" अलकेश्वराय अपि न स्पृहायांबभूव । व्याख्या-सः प्रसिद्धः मैथिल्याः अपत्यं पुमान् मैथिलेयः=कुशः पुराणा=प्राचीना,
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy