SearchBrowseAboutContactDonate
Page Preview
Page 1212
Loading...
Download File
Download File
Page Text
________________ ३३० रघुवंशे दीनाम् उपहाराः=बलयः इति पशूपहाराः तैः सहिता = युक्ता तां सपशूपहारा सपा = पूजा निवर्तयामास =कारयामास । समासः-रघुषु प्रवीरः रघुप्रवीरः । प्रतिमानां गृहाः प्रतिमागृहाः, परार्ध्याः प्रतिमागृहाः यस्यां सा परायप्रतिमागृहास्तस्याः परार्थ्यप्रतिमागृहायाः। वास्तूनां विधानानि इति वास्तुविधानानि तेषां विदः तैः वास्तुविधानविद्भिः। पशूनामुपहाराः पशूपहाराः, पशूपहारैः सहिता तां सपशूपहाराम् । हिन्दी-नगर की मरम्मती और सफाई हो जाने पर, व्रत उपवास करने वाले तथा भवन निर्माण के जानकारों ( या वास्तुयज्ञ के विद्वानों ) के द्वारा रघुओं में श्रेष्ठ राजा कुश ने श्रेष्ठ प्रतिमाओं के घरों वाली ( या सुन्दर मन्दिरों वाली ) अयोध्या नगरी की पशु बलिदान सहित सविधि पूजा कराई ॥ ३९ ॥ तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य । यथार्हमन्यरनुजीविलोकं संभावयामास यथाप्रधानम् ॥ ४० ॥ स कुशस्तस्याः पुरः संबन्धि राजोपपदं राजशब्दपूर्व निशान्तम् । राजभवनमित्यर्थः । 'निशान्तं भवनोषसोः' इति विश्वः । कामी कान्ताहृदयमिव प्रविश्य । अन्यैर्निशान्तैरनुजोविलोकममात्यादिकं यथाप्रधानं मान्यानुसारेण । यथार्ह यथोचितम् । तत्तदुचितगृहैरित्यर्थः। संभावयामास ॥ अन्वयः--सः तस्याः राजोपपदं निशान्तं कामी कान्ताहृदयम् इव प्रविश्य अन्यैः अनुजीविलोकं यथाप्रधानं यथार्ह सम्भावयामास ।। व्याख्या-सः = कुशः तस्याः = पुरः, अयोध्यायाः पदस्य समीपम् उपपदं राजन्निति शब्दः उपपदं समीपं यस्य तत् राजोपपदं तत् =राजशब्दपूर्व, निशायां रात्रौ अम्यतेस्म = गम्यतेस्म, इति निशान्तं = भवनम् , राजभवनमित्यर्थः । “निशान्तं सदनं वस्त्यमगारं मन्दिरं पुरम्" इति वाचस्पतिः। कामी प्रेमी स्त्रैण इत्यर्थः कान्तायाः प्रियायाः हृदयं = चित्तम् इव=यथा प्रविश्य = प्रवेशं कृत्वा अन्यैः = अपरैः, भवनैः, अनुजीवन्तीति अनुजीविनः, तेषां लोकः =समुदायः, इति अनुजीविलोकस्तम् अनुजीविलोकम् =अमात्यादिकम् प्रधानमनतिक्रम्य यथाप्रधानं = मान्यानुसारेण यथार्ह = यथायोग्यं तत्तद्योग्यभवनैरित्यर्थः । सम्भावयामास= सम्भावितवान्। समासः-पदस्य समीपम् उपपदम् , पदमुपगतो वा उपपदम् । राजन् इति उपपदं यस्य तत् राजोपपदम् । कान्तायाः हृदयमिति कान्ताहृदयं तत् । अनुजीविनां लोकस्तम् अनुजीविलोकम् । प्रधानमनतिक्रम्य यथाप्रधानम् । हिन्दी-जिस प्रकार कामी पुरुष कामिनी स्त्री के हृदय में घुस जाता है, उसी प्रकार राजा कुश ने उस अयोध्यानगरी के राजभवन में प्रवेश करके,और दूसरे भवनों से अपने अनुयायी मंत्री आदि लोगों का ठीक योग्यतानुसार सत्कार कर दिया। अर्थात् जो जिसके योग्य था वह घर उनको दे दिया ॥ ४० ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy