SearchBrowseAboutContactDonate
Page Preview
Page 1191
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः ३१७ तमब्रवीत्स। गुरुणानवद्या या नीतपौरा स्वपदोन्मुखेन । तस्याः पुरः संप्रति वीतनाथां जानीहि राजन्नधिदेवतां माम् ॥ ९ ॥ सा वनिता तं कुशमब्रवीत् । अनवद्याऽदोषा या पूः स्वपदोन्मुखेन विष्णुपदोन्मुखेन गुरुणा त्वत्पित्रा नीतपौरा हे राजन् , मां संप्रति वीतनाथामनाथां तस्याः पुरो नगर्या अयोध्याया अधिदेवतां जानीहि ॥ अन्वयः-सा तम् अब्रवीत्. अनवद्या या स्वपदोन्मुखेन गुरुणा नीतपौरा, हे राजन् ! मां संप्रति वीतनाथां तस्याः पुरः अधिदेवतां जानीहि । व्याख्या-सा = वनिता तं =राजानं कुशम् अब्रवीत् = उक्तवती न अवद्या अनवद्या = निदोषा या = पूः, नगरी स्वस्य पदं स्त्रपदं = विष्णुपदं तस्मिन् “गन्तुम्" उन्मुखः = उत्सुकस्तेन स्वपदोन्मुखेन = वैकुण्ठं गमनोत्सुकेन गुरुणा = तव पित्त्रा रामेण नीताः = प्रापिताः पौराः = नागरिकाः यस्याः सा नीतपौरा, हे राजन् = भूपाल ! मां = वनितां सम्प्रति = साम्प्रतम् वीतः = गतः नाथः = स्वामी यस्याः सा तां वीतनाथाम् = अनाथां तस्याः = अयोध्यायाः पुरः = नगाः अधिदेवताम् = अधिष्ठात्री जानीहि = विद्धि । समासः-न अवद्या अनवद्या। नीताः पौराः यस्याः सा नीतपौरा। स्वस्य पदं स्वपदं तत्र उन्मुखः स्वपदोन्मुख स्तेन स्वपदोन्मुखेन । वीतः नाथः यस्याः सा तां वीतनाथाम् । ___ हिन्दी-वह महिला बोली कि-हे राजन् ! मुझे इस समय उस अयोध्यापुरी की अनाथ अधिष्ठात्री देवता (प्रधान देवी) जानो, जो कि निर्दोष है, पवित्र है। और अपने वैकुण्ठ धाम जाने के लिये उत्सुक तुम्हारे पिता राम, जिस नगरी के निवासियों को अपने साथ ले गये ॥९॥ वस्वौकसाराममिभूय साहं सौराज्यबद्धोत्सवया विभूत्या। समप्रशक्ती त्वयि सूर्यवंश्ये सति प्रपना करुणामवस्थाम् ॥ १० ॥ साहं सौराज्येन राजन्वत्तया हेतुना बद्धोत्सवया विभूत्या। वस्वौकसाराऽलकापुरी। 'अलकापुरी वस्वौकसारा स्यात्' इति कोशः। अथवा मानसोत्तरशैलशिखरवर्तिनी शक्रनगरी। 'वस्वौकसारा शक्रस्य' इति विष्णुपुराणात् । तामभिभूय तिरस्कृत्य समग्रशक्तौ त्वयि सूर्यवंश्ये सति करुणामवस्थां दीनां दशां प्रपन्ना प्राप्ता ॥ अन्वयः-सा अहं सौराज्यबद्धोत्सवया विभूत्या वस्वौकसाराम् अभिभूय समग्रशक्तौ त्वयि सूर्यवंश्ये सति करुणाम् अवस्थां प्रपन्ना । व्याख्या-सा अहम् = अयोध्याधिष्ठात्री, सुष्ठु = पूजितः राजा सुराजा, सुराशः भावः कर्म वा सौराज्यं, सौराज्येन =सुनृपतया "हेतुना" बद्धः उत्सवः = आनन्दः यया सा सौराज्यबद्धोत्सवा तया सौराज्यबद्धोत्सवया विभूत्या = ऐश्वर्येण, वसूनाम् = देवानाम् ओकस्य =
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy