SearchBrowseAboutContactDonate
Page Preview
Page 1190
Loading...
Download File
Download File
Page Text
________________ ३१६ रघुवंशे नहि योगिनां दुःखमस्तीति भावः । किंच । हे शुभे, त्वं का। कस्य वा परिग्रहः पत्नी । ते तव मदभ्यागमे कारणं वा किम् । वशिनां जितेन्द्रियाणां रघूणां मनः परस्त्रीषु विषये विमुखा प्रवृत्तिर्यस्य तत्तथाभूतं मत्वाचक्ष्व ॥ अन्वयः-सावरणे अपि गेहे लब्धान्तरा "त्वम्" योगप्रभावश्चते न लक्ष्यते, मृणालिनी हैमम् उपरागम् इव अनिर्वृतानाम् आकारं च विभषि, ॥७।। हे शुभे! त्वं का कस्य वा परिग्रहः ते मदभ्यागमे कारणं वा किम्, वशिनां रघूणां मनः परस्त्री विमुखप्रवृत्ति मत्वा आचक्ष्व ॥ युग्मम् ।। व्याख्या-आवरणेन = आच्छादनेन, कपाटादिना, इत्यर्थः सहितमिति सावरणं तस्मिन् सावरणे कपाटेनावृतेऽपि गेहे =भवने लब्ध:=प्राप्तः अन्तरः = अवकाशः, प्रवेश इत्यर्थः यया सा लब्धान्तरा त्वमिति शेषः योगस्य = योगविद्यायाः प्रभावः = प्रतापः इति योगप्रभावः च ते= तव न लक्ष्यते = नदृश्यते, “यतः” मृणालानि सन्ति यस्याः सा मृणालिनी = पद्मिनी हिमस्यायमिति हैमस्तं हैमं प्रालेयम् उपरागम् = उपद्रवम् इव = यथा न निवृत्ताः अनिवृत्ता. स्तेषाम् अनिर्वृत्तानां= दुःखितानाम् आकारं = स्वरूपं बिभर्षि =धारयसि । नहि योगवतां किमपि दुःखं भवतीति भावः । किञ्च शोभते या सा शुभा, शु=पूजितं भातोति वा शुभा तस्याः संबुद्धौ हे शुभे = शोभने ! त्वं =भवती का = किन्नामधेया कस्य वा = पुरुषस्य परिगृह्यते, परि. गृह्णाति वा परिग्रहः = पत्नी, ते = तव अभ्यागमनम् अभ्यागमः, मम = कशस्य अभ्यागमे =अन्तिके, पावें कारणं = प्रयोजनमिति मदभ्यागमकारणं वा= अथवाकिम् “अभ्यागमः समरेऽन्तिके" इति हैमः । वशिनां = जितेन्द्रियाणां रघुवंशीयानां मनः=चित्तं परेषाम् = अन्यजनानां स्त्रियः = पत्न्यः इति परस्त्रियः, तासु विमुखा = विरुद्धा प्रवृत्तिः = प्रवर्तनं यस्य तत् परस्त्रीविमुखप्रवृत्ति तत् मत्वा =ज्ञात्वा आचक्ष्व = कथय । समासः-लब्धः अन्तरः यया सा लब्धान्तरा। आवरणेनसहितं सावरणं तस्मिन् सावरणे । योगस्य प्रभावः योगप्रभावः । न निवृताः अनिर्वृता स्तेषाम् अनिवृतानाम् । मम अभ्यागमः मदभ्यागमः, मदभ्यागमे कारणमिति मदभ्यागमकारणम् । परेषां स्त्रियः, परस्त्रियः, परस्त्रीषु विमुखा प्रवृत्तिः यस्य तत् परस्त्रीविमुखप्रवृत्ति तत् । हिन्दी-तुम हमारे बन्द घर में घुस आई हो, तुम्हारे मुख पर योग का प्रभाव नहीं दीखता है । अर्थात् योगिनी भी नहीं हो। क्योंकि पाला पड़ने से मुरझाई पोडित पद्मिनी के समान दुःखी लोगों के जैसे चेहरे को धारण किये हुई हो। अर्थात् दुःखित एवं मलिन मुखवाली दीख पड़ रही हो और योगियों को दुःख नहीं होता है। अतः हे भद्रे ! तुम कौन हो और तुम किसकी पत्नी हो ( तुम्हारा पति कौन है ) तथा मेरे पास ( रात के एकान्त में ) आने का प्रयोजन क्या है। जितेन्द्रिय हम रघुवंशियों का मन दूसरे की स्त्रियों के विषय में विरुद्ध व्यवहार वाला होता है। अर्थात् परस्त्री से दूर ही रहता है। यह बात समझकर बोलो, आने का कारण बताओ ॥ ७॥ ८ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy