SearchBrowseAboutContactDonate
Page Preview
Page 1152
Loading...
Download File
Download File
Page Text
________________ २७८ रघुवंशे समासः-रघूणां रधुषु वा उद्वहः रघूद्वहः । आत्तानि शस्त्राणि येन सः आत्तशस्त्रः। गूढं रूपं यस्याः सा गूढरूपा। हिन्दी-रघु के कुल को चलाने वाले श्रीराम अस्त्र-शस्त्र लेकर तथा उस पुष्पक विमान पर चढ़कर जब चले तब राम के सामने वह वाणी उच्चरित हुई जिसका शरीर गुप्त था। अर्थात् चलते ही उनके सामने आकाशवाणी हुई ॥ ४६ ॥ राजन्प्रजासु ते कश्चिदपचारः प्रवर्तते । तमन्विष्य प्रशमयमवितासि ततः कृती ॥ ४७ ॥ हे राजन् , ते प्रजासु कश्चिदपचारो वर्णधर्मव्यतिकरः प्रवर्तते । तमपचारमन्विष्य प्रशमयः । ततः कृती कृतकृत्यो भवितासि भविष्यसि ॥ अन्वयः-हे राजन् ते प्रजासु कश्चित् अपचारः प्रवर्तते, तम् अन्विष्य प्रशमयेः ततः कृतीः भवितासि । व्याख्या-राजते = प्रकाशते इति राजा तत्संबुद्धौ हे राजन् = हे भूपाल ! ते = तव प्रजासु =जनेषु कश्चित् = कोऽपि अपचारः = अपराधः, दोषः, वर्णधर्मव्यतिकरः इत्यर्थः प्रवर्तते = विद्यते, तम् = अपचारम् अन्विष्य =मार्गयित्वा प्रशमयेः = निवारयेः, चेत् ततः= तदा त्वं कृतमस्यास्तीति कृती = कृतकार्यः भवितासि = भविष्यसि । हिन्दी-हे राजन् आपकी प्रजाओं में कोई अपराध है। अर्थात् वर्ण धर्म के विरुद्ध आचरण हो रहा है । अतः उसे खोजकर दूर करें। तो तब आपका कार्य सफल होगा। आप कृतकार्य होंगे ॥ ४७॥ इत्याप्तवचनाद्रामो विनेष्यन्वर्णविक्रियाम् । दिशः पपात पत्त्रेण वेगनिष्कम्पकेतुना ॥ ४८ ॥ इत्याप्तवचनाद्रामो वर्णविक्रियां वर्णापचारं विनेष्यन्नपनेष्यन्वेगेन निष्कम्पकेतुना पत्त्रेण वाहनेन पुष्पकेण । 'पत्त्रं वाहनपक्षयोः' इत्यमरः। दिशः पपात धावति स्म । अन्वयः-इति आप्तवचनात् रामः वर्णविक्रियां विनेष्यन् वेगनिष्कम्पकेतुना पत्रेण दिश पपात । व्याख्या-इति = एवं पूर्वोक्तप्रकारेण आप्तस्य = प्रत्यायितस्य विश्वसनीयस्येत्यर्थः वचनं = वाक्यं तस्मात् आप्तवचनात् “आप्तः प्रत्यायितस्त्रिषु" इत्यमरः। रामः=राघवः वर्णस्य = वर्णाश्रमधर्मस्य विक्रिया = अपचारः, विरुद्धाचरणमित्यर्थः। इतिवर्णविक्रिया तां वर्णविक्रियां विनेष्यन् = अपनेष्यन्, निवारयिष्यन्, वेगेन =जवेन "हेतुना" निष्कम्पः = कम्परहितः केतुः= ध्वजा यस्य तत्तेन वेगनिष्कम्पकेतुना पत्रेण = पुष्पकविमानेन “पत्रं तु वाहने पर्ण स्यात्" इति मेदिनी। दिशः = काष्ठाः पपात = धावति स्म । समासः-आप्तस्य वचनमाप्तवचनं तस्मात् आप्तवचनात् । वर्णस्य विक्रिया वर्णविक्रिया तां वर्णविक्रियाम् । वेगेन निष्कम्पः केतुः यस्य तत् वेगनिष्कम्पकेतु, तेन वेगनिष्कम्पकेतुना ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy