SearchBrowseAboutContactDonate
Page Preview
Page 1151
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः २७७ समासः-न काल: अकालः, अकाले भवः अकालभवः । ___ हिन्दी-प्रजा के रक्षक रामचन्द्र जी, उस ब्राह्मण के शोक ( दुःख ) के हेतु को ( पुत्र का मरना ) सुनकर बड़े लज्जित हुए। क्योंकि इक्ष्वाकु के वंश के राजाओं के राज्य में अकाल मृत्यु किसी को नहीं छू पाता था । अर्थात् किसी की भी अकाल मृत्यु नहीं होती थी ॥ ४४ ॥ स मुहूर्त क्षमस्वेति द्विजमाश्वास्य दुःखितम् । यानं सस्मार कौबेरं वैवस्वतजिगीषया ॥ ४५ ॥ स रामो दुःखितं द्विजं मुहूर्त क्षमस्वेत्याश्वास्य वैवस्वतस्यान्तकस्यापि जिगोषया जेतुमिच्छया कौबेरं यानं पुष्पकं सस्मार ॥ अन्वयः-सः दुःखितं द्विजं मुहूर्त क्षमस्व इति आश्वास्य वैवस्वतजिगीषया कौबेरं यानं सस्मार। व्याख्या-सः = राघवः दुःखमस्यास्तीति दुःखित स्तं दुःखितं = शोकमग्नं द्वाभ्यां = जन्मसंस्काराभ्यां जायते इति द्विजस्तं द्विजं = विप्रं मुहूर्त = किंचित्कालं क्षमस्व सहस्व इति = एवम् आश्वास्य = धैर्य प्रदाय विविधं वस्ते = आच्छादयतीति विवः = रश्मिः अस्यास्तीति विवस्वान्। विवस्वतोऽपत्यं पुमान् वैवस्वतः। जेतुमिच्छा जिगीषा। वैवस्वतस्य = यमस्य जिगीषा = जेतुमिच्छा तया वैवस्वतजिगीषया कुत्सितं बेरं = शरीरमस्येति कुबेरः। कुबेरस्य = धनाधिपस्य इदं कौबेरं यानं = पुष्पकं सस्मार = स्मरति स्म । समासः-वैवस्वतस्य जिगीषा वैवस्वतजिगीषा तया वैवस्वतजिगीषया। हिन्दी-राम ने उस दुःखी ब्राह्मण को यह आश्वासन देकर कि-क्षमा करें, कुछ काल तक प्रतीक्षा करें। सूर्य पुत्र यमराज को भी जीतने की इच्छा से कुबेर के पुष्पक विमान को स्मरण किया ॥ ४५ ॥ आत्तशस्त्रस्तदध्यास्य प्रस्थितः स रघूद्वहः । उच्चचार पुरस्तस्य गूढरूपा सरस्वती ॥ ॥ ४६॥ स रघूद्वहो राम आत्तशस्त्रः सन्। तत्पुष्पकमध्यास्य प्रस्थितः। अथ तस्य पुरो गूढरूपा सरस्वत्यशरीरा वागुच्चचारोबभूव ॥ अन्वयः-सः रघूद्वहः आत्तशस्त्रः सन् तत् अध्यास्य प्रस्थितः । तस्य पुरः गूढरूपा सरस्वती उच्चचार। व्याख्या--सः= प्रसिद्धः उदहति = ऊवं नयति पितृन् इति उद्वहः। रघूणां = रघुकुलोद्भवानाम् उद्वहः =रक्षादिभारधारकः श्रीरामः आत्तं = गृहीतं शस्त्रम् = आयुधं येन सः आत्तशस्त्रः सन् तत् = कौबेरं पुष्पकम् अध्यास्य =अधिष्ठाय प्रस्थितः = यमजयाय प्रचलितः । अथ = प्रस्थानकाले तस्य = रामस्य पुरः = अग्रे गूढं = गुप्तं, प्रच्छन्नं रूपं यस्याः सा गूढरूपा = अशरीरिणी सरस्वती = वाक् उच्चचार = उद्गता । आकाशवाणी बभूवेत्यर्थः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy