SearchBrowseAboutContactDonate
Page Preview
Page 1113
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः २३९ अन्वयः -सीता विलापात् विरता सती, नेत्रावरणम् अश्रु प्रमृज्य तं ववन्दे । दोहदलिंगदर्शी मुनिः तस्यै सुपुत्राशिषं दाश्वान् इति उवाच । व्याख्या — सीता = जनकात्मजा विलपनं विलापस्तस्मात् विलापात् परिदेवनात् “विलापः परिदेवनम्” इत्यमरः । रोदनादित्यर्थः । विरता = विश्रान्ता सती नेत्रयोः = चक्षुषोः आवरणम् = आच्छादकमिति नेत्रावरणं तत्, दृष्टिप्रतिबन्धकमित्यर्थः । अश्रु = नेत्रजलं प्रमृज्य = प्रोन्ळ्य तं = वाल्मीकिं मुनिं ववन्दे = प्रणनाम, अभिवादनं चकार । दोहम् = आकर्षं ददातीति दोहदं, दोहदस्य = गर्भस्य लिंगं = चिह्नं पश्यतीति दोहदलिंगदर्शी = गर्भलक्षणज्ञ इत्यर्थः । मुनिः = महर्षिवाल्मीकिः तस्यै = सीतायै सुष्ठु = सुन्दरभाग्यशाली पुत्रः = आत्मजः इति सुपुत्रः, तदर्थम् आशीः=शुभाशंसनं तां सुपुत्राशिषं, सुपुत्रस्ते भूयादित्यादिरूपामित्यर्थः दाश्वान् = दत्तवान् इति वक्ष्यमाणप्रकारेण उवाच = जगाद | समासः - नेत्रयोः आवरणमिति नेत्रावरणं तत् । दोहदस्य लिंगमिति दोहदलिंगम् तस्य दर्शी दोहद लिंगदर्शी । सुष्ठु पुत्रः सुपुत्रः तस्याशीस्तां सुपुत्राशिषम् । हिन्दी - रोने से विरत हुई सीता ने आँखों के आवरण ( ढकने वाला ) आँसुओं को पोंछ कर महर्षि वाल्मीकि को प्रणाम किया । तथा गर्भ के लक्षण को देख कर मुनि ने सीता को ‘अच्छे सुन्दर वीर पुत्र वाली हो' यह आशीर्वाद दिया और इस प्रकार बोले ।। ७१ ॥ जाने विसृष्टां प्रणिधानतस्त्वां मिथ्यापवादक्षुभितेन भर्त्रा । तन्मा व्यथिष्ठा विषयान्तरस्थं प्राप्तासि वैदेहि पितुर्निकेतम् ॥ ७२ ॥ त्वां मिथ्यापवादेन क्षुभितेन भर्त्रा विसृष्टां त्यक्तां प्रणिधानतः समाधिदृष्टया जाने । हे वैदेहि, विषयान्तरस्थं देशान्तरस्थं पितुर्जनकस्यैव निकेतं गृहं प्राप्तासि । तत्तस्मान्मा व्यथिष्ठा मा शोचीः । व्यथेर्लुङ् । 'न माङ्योगे' इत्यडागमप्रतिषेधः । भत्रपेक्षितानां पितृगृहवास एवोचित इति भावः ॥ अन्वयः -- त्वां मिथ्यापवादक्षुभितेन भर्त्रा विसृष्टां प्रणिधानतः जाने, हे वैदेहि ! विषयान्तरस्थं पितुः निकेतं प्राप्तासि तत् मा व्यथिष्ठाः । व्याख्या -- त्वां - - सीतां मिथ्या = मृषा अपवादः = निन्दा, तेन मिथ्यापवादेन " मृषा मिथ्या वितथे” इत्यमरः । क्षुभितः = संचलितः भीत इत्यर्थः इति मिध्यापवादक्षुभितस्तेन मिथ्यापवादक्षुभितेन भर्त्रा = पत्या, रामेण त्रिसृष्टां = परित्यक्तां प्रणिधीयतेऽनेनेति प्रणिधानं प्रणिधानेनैति प्रणिधानतः = समाधिना “सार्वविभक्तिकस्तसिल् । अहं वाल्मीकिः जाने = वेद्मि । हे वैदेहिं ! हे जानकि ! अन्यो विषयः विषयान्तरम् । विषयान्तरे = देशान्तरे तिष्ठतीति विषयान्तरस्थस्तं विषयान्तरस्थं पितुः = जनकस्यैव निकेतति = निवसति अस्मिन्निति निकेतः तं निकेतं =गृहं प्राप्ता = आगता असि = विद्यसे, तत् = तस्मात् मा व्यथिष्ठाः = मा शोचीः, पितृगृहे एव स्थितत्वात् । स्वामिना उपेक्षितानां कन्यानां पितृ गेहनिवास एव शास्त्र संमतः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy