SearchBrowseAboutContactDonate
Page Preview
Page 1112
Loading...
Download File
Download File
Page Text
________________ २३८ रघुवंशे यस्य शोकः श्लोकत्वमापद्यत । श्लोकरूपेणावोचदित्यर्थः। स च श्लोकः पठ्यते-'मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥' इति । तिरश्चामपि दुःखं न सेहे । किमुतान्येषामिति भावः ॥ अन्वयः-कुशेध्माहरणाय यातः कविः रुदितानुसारी सन् ताम् अभ्यगच्छत् । निषादविद्धाण्डजदर्शनोत्थः यस्य शोकः श्लोकत्वम् आपद्यत । व्याख्या-कौ= पृथिव्यां शेरते इति कुशाः । इध्यतेऽग्निः एभिरिति = इध्मानि। कुशानां = दर्भाणाम् इध्मानाम् = इन्धनानां च आहरणम् = आनयनं तस्मै कुशेध्माहरणाय यातः= प्राप्तः कविः = काव्यकरः, वाल्मीकिरित्यर्थः। “कविर्वाल्मीकिकाव्ययोः। सूरौ काव्यकरे पुंसि” इति मेदिनी। रुदितं = क्रन्दनं, रोदनम् अनुसतुं शीलमस्येति रुदितानुसारी सन् रोदनमनुसरन् ताम् = सीताम् अभ्यगच्छत् = आयातः । रोदनं श्रुत्वा परमदयालुतया सीतापार्श्वमागत इत्यर्थः । तस्य दयालुतामेव दर्शयति अण्डे जातः अण्डजः = पक्षी, क्रौञ्चः । निषादेन = व्याधेन विद्धः = ताडितः, मारितः, इत्यर्थः इति निषादविद्धः । निषादविद्धश्चासौ अण्डजः क्रौञ्चः पक्षिविशेषः, तस्य दर्शनम् = अवलोकनं तेन उत्थः = उत्पन्नः जात इति निषादविद्धाण्डजदर्शनोत्थः यस्य = कवेः वाल्मोकेः शोकः = सन्तापः दुःखजन्यक्रोध इत्यर्थः । श्लोकभावः श्लोकत्वं = पद्यत्वम् आपद्यत =अजायत निषादविद्धं क्रौञ्चपक्षिणं दृष्ट्वा करुणापूर्णहृदयस्य महर्षेः मुखात् "मा निषाद ! प्रतिष्ठां त्वमगम" इत्यादिश्लोकः स्वतो निर्गतः। इति पक्षिणामपि यो दुःखं न सेहे किमुत मनुष्याणामिति भावः। समासः-कुशाश्च इध्मानि च तेषाम् आहरणमिति कुशेध्माहरणं तस्मै कुशध्माहरणाय । रुदितस्य अनुसारी, रुदितानुसारी। निषादेन विद्धः यः अण्डजः इति निषादविद्धाण्डजस्तस्य दर्शनं तेन उत्थः, इति निषादविद्धाण्डजदर्शनोत्थः । हिन्दी-कुश और इन्धन ( लकड़ी ) लेने के लिये आश्रम से निकले वाल्मीकि मुनि, सीता के रोने का अनुसरण करते हुए, सीता जी के पास आ गये। “वे मुनि इतने कृपालु थे कि" व्याध के द्वारा मारे गये क्रौञ्चपक्षी को देखने से उत्पन्न उनका शोक ( सन्ताप ) श्लोक बन गया । अर्थात् मारे हुए पक्षी को देखकर मुनि को बड़ा सन्ताप हुभा, इससे उनके मुख से संसार का प्रथम श्लोक 'मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।' इत्यादि निकल पड़ा। जिसको पक्षियों पर इतनी करुणा है भला वे मनुष्य के रुदन को कैसे सहते ॥ ७० ॥ तमश्रु नेत्रावरणं प्रमृज्य सीता विलापाद्विरता ववन्दे । तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्वान्सुपुत्राशिमित्युवाच ॥ ७१ ॥ सीता विलापाद्विरता सती नेत्रावरणं दृष्टिप्रतिबन्धकमश्रु प्रमृज्य तं मुनिं ववन्दे । दोहदलिङ्गदर्शी गर्भचिह्नदर्शी मुनिस्तस्यै सीतायै सुपुत्राशिषं तत्प्राप्तिहेतुभूतां दाश्वान्दत्तवानिति वक्ष्यमाणप्रकारणोवाच । 'दाश्वान्साहान्मीढ्वांश्च' इति क्वस्वन्तो निपातः ।।।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy