SearchBrowseAboutContactDonate
Page Preview
Page 1080
Loading...
Download File
Download File
Page Text
________________ रघुवंशे ताः, तासु षडाननापीतपयोधरासु कृन्तन्ति उग्रत्वात् कृत्तिकाः तासु कृत्तिकासु =बहुलासु इवयथा कार्तिकेयेन देवैः प्रेषितानां षण्णां कृत्तिकानां स्तनेभ्य षड्भिः मुखैः समानरूपेण दुग्धं पीतम् तथैव रामेणापि तिसृष्वपि मातृषु भक्त्या प्रेम्णा समानो व्यवहारः कृतः।। समासः-निर्गता विशेषा प्रतिपत्तिः यस्मात् स निर्विशेषप्रतिपत्तिः । षड्भिः आननैः आपीताः पयोधराः यासां ताः, तासु षडाननापीतपयोधरासु । हिन्दी-रामचन्द्र, अतिस्नेहशील होने के कारण तीनों माताओं के प्रति समानरूप से उसी प्रकार प्रेम, भक्ति, श्रद्धा का व्यवहार करते थे, जैसे कि सेनानायक कार्तिकेय, ने अपने छः मुखों से छः कृत्तिकाओं का स्तनपानकर समान प्रेम प्रकट किया था। विशेष-कृत्तिका तीसरा नक्षत्र, छ: तारों का समूह है। ये छः तारे छ: अप्सराओं का रूप धारण कर के युद्ध में देवताओं के सेनापति कार्तिकेय की धाय बनकर आए थे। कार्तिकेय ने भी अपने छः मुख बनाकर छओं का एक साथ स्तनपान किया था। ऐसा इतिहास है ॥२२॥ तेनार्थवॉल्लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान् । तेनास लोकः पितृमान्विनेत्रा तेनैव शोकापनुदेन पुत्री ॥ २३ ॥ लोको लोभपराङ्मुखेन वदान्येन तेन रामेणार्थवान्धनिक आस बभूत । तिङन्तंपतिरूपकमव्ययमेतत् । विघ्नेभ्यो भयं नता नुदता तेन क्रियावाननुष्ठानवानास । विनेत्रा नियामकेन तेन पितृमानास । पितृवन्नियच्छतीत्यर्थः । शोकमपनुदतीति शोकापनुदो दुःखस्य हर्ता तेन । 'तुन्दशोकयोः परिमृजापनुदोः' इति कप्रत्ययः । तेन पुत्री पुत्रवानास । पुत्रवदानन्दयतीत्यर्यः ।। अन्वयः-लोकः लोभपराङ्मुखेन तेन अर्थवान् आस, विघ्नभयं नता तेन क्रियावान् , विनेत्रा वेन पितृमान् , शोका मनुदेन तेन एव पुत्री आस । __ व्याख्या लोक्यते इति लोकः =जनः, पराञ्चति = अनभिमुखो भवति, इति पराङ्मुखः । लोभात् = लालसायाः पराङ्मुखः= विमुखः इति लोभपराङ्मुखस्तेन लोभपराङ्मुखेन लोभरहिते. नेत्यर्थः । तेन = रामेण अर्यः अस्यास्तीति अर्थवान् = धनवान् आस = बभूव, विनेभ्यः = अन्तरायेभ्यः भयं = भीतिः, तत् वितभयं प्रता=निवारयता तेन लोकः क्रिया अस्त्यस्येति क्रियावान् = अनुष्ठानत्रान् , विशेषण नयति = प्रापयतीति विनेता तेन विनेत्रा पथिप्रदर्शकेन, शासकेनेत्यर्थः । तेन =रामेण पितास्ति यस्य स पितृमान् आस, पितृवन्नियंत्रयतीत्यर्थः। शोक = शुचम् अपनुदति = निवारयति, हरतीति शोकापनुदः तेन शोकापनुदेन तेन - रामेण एव लोकः पुत्री = पुत्रवान् आस । पुत्रवत् रामः सर्वान् आनन्दयतीत्यर्थः । समासः-लोभात् पराङ्मुखः लोभपराङ्मुखस्तेन लोभपराङ्मुखेन । विघ्नेभ्यः भयमिति तत् विघ्नभयम् । शोकस्य अपनुदः शोकापनुदस्तेन शोकापनुदेन । हिन्दी-राम के लोभ-लालच से विमुख ( रहित ) होने से प्रजा धनवान् थी। विनों का नाश करने वाले राम के कारण ही प्रजा अपने यज्ञादि अनुष्ठान करतो थी। तथा सबको
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy