SearchBrowseAboutContactDonate
Page Preview
Page 1079
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः पितुर्नियोगाद्वनवासमेवं निस्तीयं रामः प्रतिपन्नराज्यः । धर्मार्थंकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम् ॥ २१ ॥ २०५ राम एवं पितुर्नियोगाच्छासनाद्वनवासं निस्तीर्यानन्तरं प्रतिपन्नराज्यः प्राप्तराज्यः सन् । धर्मार्थकामेषु यथा तथैवावरजेष्वनुजेषु समां वृत्तिं प्रपेदे । अवैषम्येण व्यवहृतवानित्यर्थः ।। अन्वयः - रामः एवं पितुः नियोगात् वनवासं निस्तीर्यं प्रतिपन्नराज्यः सन् यथा धर्मार्थकामेषु तथा एव अवरजेषु समां वृत्तिं प्रपेदे । । व्याख्या - रामः एवं = पूर्वोक्तप्रकारेण पितुः = जनकस्य, दशरथस्य नियोगात् = शासनात्, आइयेत्यर्थः, वने = अरण्ये वासः = निवासस्तं वनवासं निस्तीर्य = तीर्त्वा, समाप्येत्यर्थः प्रतिपन्नं = प्राप्तं राज्यं = साम्राज्यं, प्रभुसत्ता येन स प्रतिपन्नराज्यः सन् यथा = येन प्रकारेण धर्मश्च अर्थश्च कामश्च, एषां द्वन्द्रः धर्मार्थकामाः तेषु धर्मार्थकामेषु = त्रिषु पुरुषार्थेषु तथैव : तेनैव प्रकारेण अवरेषु कालेषु जाताः अवरजास्तेषु अवरजेषु = अनुजेषु समांसमानाम्, एकरूपां वृत्ति = व्यवहारं प्रपेदे प्राप, सर्वेष्वपि एकरूपेण व्यवहृतवानित्यर्थः । - समासः - वने वासः वनवासस्तं वनवासम् । प्रतिपन्नं राज्यं येन स प्रतिपन्नराज्यः । धर्मश्च अर्थश्च कामश्च, इत्येषामितरेतरयोगः धर्मार्थकामास्तेषु धर्मार्थकामेषु । हिन्दी - - इस प्रकार पिता की आज्ञा से वन में निवास के चौदह वर्ष बिताकर तथा पुनः राज्य को प्राप्त करके राम ने जैसे धर्म, अर्थ और काम के विषय में एकसा व्यवहार किया । ठीक उसी प्रकार अपने छोटे भाइयों के साथ भी बिना भेदभाव के एकसा प्रेम-व्यवहार किया ॥ २१ ॥ सर्वासु मातृष्वपि वत्सलत्वात्स निर्विशेषप्रतिपत्तिरासीत् । षडाननापीतपयोधरासु नेता चमूनामिव कृत्तिकासु ।। २२ ।। स रामो वत्सलत्वात्स्निग्धत्वात् । न तु लोकप्रतीत्यर्थम् । 'स्निग्धस्तु वत्सलः' इत्यमरः । सर्वासु मातृष्वपि निर्विशेषप्रतिपत्तिस्तुत्यसत्कार आसीत् । कथमिव । चमूनां नेता षण्मुखः षड्भिराननैरापीताः पयोधराः स्तनाः यासां तासु कृत्तिकास्विव ।। अन्वयः -- सः वत्सलत्वात् सर्वासु मातृषु अपि नित्रिंशेषप्रतिपत्तिः आसीत्, चमूनां नेता षडाननापी तयोधरा कृत्तिकासु इव । व्याख्या - सः = रामः वत्से = पुत्रादिस्नेहपात्रे ऽभिलाषोऽस्यास्तीति वत्सलः, वत्सलस्य भावः वत्सलत्वं तस्मात् वत्सलत्वात् = स्निग्धत्वात् " स्निग्धस्तु वत्सलः" इत्यमरः । सर्वासु = तिसृषु मातृषु = कौसल्यादिष्वपि निर्गता विशेषा = विशिष्टा प्रतिपत्तिः = ज्ञानं, व्यवहारः यस्मात् स निर्विशेषप्रतिपत्तिः, इयं मे जननी, इयं विमाता इत्यादिपक्षपातशून्य इत्यर्थः । आसीत् = अभूत् । कथमिव इत्याह – चमूनां = सेनानां नेता = नायकः सेनानीः कार्तिकेयः, धरन्तीति धराः पयसां : दुग्धानां धराः पयोधराः । षभिः = षट्संख्याकैः आननैः = मुखैः पीताः पयोधराः = स्तनाः यासां
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy