SearchBrowseAboutContactDonate
Page Preview
Page 1046
Loading...
Download File
Download File
Page Text
________________ १७२ रघुवंशे सितानि च तानि पंकजानि इति सितपंकाजानि तेषां सितपङ्कजानां = पुण्डरीकाणां माला = पुष्पस्रक् इव विभाति। क्वचित् = अन्यत्र स्थले कदम्बे =समूहे भवाः कादम्बाः, कादम्बानां नीलवर्णकलहंसानां संसर्गः = सम्पर्कः अस्ति यस्याः सा कादम्बसंसर्गवती प्रियम् = इष्टं मानसं = सरोवरः येषां ते तेषां प्रियमानसानां खे = आकाशे गच्छन्तीति खगास्तेषां, खगानां =राजहंसानां पंक्तिः श्रेणिरिव विभाति । __अन्यत्र = अन्यस्मिन् प्रदेशे कालञ्च तदगुरु चेति कालागुरु । कालागुरुणा = अगुरुणा दत्तं = कृतं = रचितं पत्रं = मकरिकापत्रं यस्यां सा कालागुरुदत्तपत्रा भुवः = पृथिव्याः चन्दनेन = मलयजेन कल्पिता = कृता, निर्मिता, इति चन्दनकल्पिता, भक्तिः = तिलकादिरचना ३व विभाति । क्वचित् = प्रदेशे छायासु = आतपाभावेषु विलीनानि = निलीय स्थितानि तैः छायाविलीनैः तमोभिः = अन्धकारैः न शबला अशबला, अशबला शबला संपद्यमाना इति शबलीकृता= कबुरोकृता चन्द्रमसः इयं चान्द्रमसी = ऐन्दवी प्रभा = चन्द्रिका इव विभाति । अन्यत्र = अन्यस्मिन् स्थाने रन्ध्रषु = छिद्रेषु आ = ईषत् लक्ष्याः = दृश्याः नभसः = आकाशस्य प्रदेशाः = भागाः यस्यां सा आलक्ष्यनभःप्रदेशा शुभ्रा = श्वेता शरदः = शरदृतोः अभ्राणि = मेवाः तेषां लेखा = रेखा पंक्तिः इव विभाति । अपो बिभ्रतीति अभ्राणि, न भ्रश्यन्ति आपः येभ्यस्तानि वा अभ्राणि । क्वचिच्च उरसा गच्छतीति उरगः कृष्णः = श्यामश्चासौ उरगः= सर्पः इति कृष्णोरगः भूषणम् = आभरणं यस्याः सा कृष्णोरगभूषणा भस्म =भूतिः अंगस्य = शरीरस्य रागः = विलेपनं यस्याः सा भस्मांगरागा ईशितुं शीलमस्येति ईश्वरस्तस्य ईश्वरस्य == शिवस्य तनुः= शरीरम् इव विभाति इति = दर्शनीयं त्वं = जानकि पश्य =अवलोकय इति सर्वत्र संबन्धः । समासः-इन्द्रवत् नीलास्तैः इन्द्रनीलः । सितानि तानि पंकजानि सितपंकजानि तेषां सिता. पंकजानाम् । इन्द्याः वराणि तैः इन्दीवरैः उत्खचितमन्तरं यस्याः सा उत्खचितान्तरा । प्रियं मानसं येषां ते प्रियमानसास्तेषां प्रियमानसानाम् । कादम्बानां संसर्गः कादम्बसंसर्गः सोऽस्यास्तोति कादम्बसंसर्गवती। कालञ्च तदगुरु कालागुरु तेन दत्तं पत्रं ययाः सा कालागुरुदत्तपत्रा। चन्दनेन कल्पिता चन्दनकल्पिता । छायासु विलीनानि तैः छायाविलीनैः । शरदः अभ्राणि शरदभ्राणि तेषां लेखा शरदभ्रलेखा। आ लक्ष्याः नभसः प्रदेशाः यस्याः सा आलक्ष्यनभःप्रदेशा। कृष्णश्चासौ उरगः कृष्णोरगः । कृष्णोरगः भूषणं यस्याः सा कृष्णोरगभूषणा । भस्म अंगस्य रागो यस्याः सा भस्मांगरागा । यमुनायाः तरंगाः यमुनातरंगास्तै: यमुनातरंगैः। भिन्न: प्रवाहः यस्याः सा भिन्नप्रवाहा । न अवद्यमिति अनवद्यम् , अनवद्यम् अंगं यस्याः सा अनवद्यांगी तत्संबुद्धौहे अनवद्यांगि। ___हिन्दी-हे सुन्दर शरीरवाली सीते ! यमुना की नीली तरंगों से मिली हुई, श्वेत तरंगों वाली गंगाजी सुशोभित हो रही है। यह तुम देखो। कहीं परतो अपनी नीली कान्ति
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy