SearchBrowseAboutContactDonate
Page Preview
Page 1038
Loading...
Download File
Download File
Page Text
________________ रघुवंशे द्भिः = यज्ञीयकाष्ठैः सन्तर्प्य = तर्पयित्वा ततः मंत्रैः -- वेदमंत्रैः पूता = शुद्धा, पवित्रा तां मंत्रपूतां तनुम् = शरीरम् अपि अहौषीत् - हुतवान् । आहुतिरूपेण स्वशरीमपि वह्नौ प्रक्षिप्तवानित्यर्थः। समासः- शरभंग इति नाम यस्य स तस्य शरभंगनाम्नः । तपसः वनं तपोवनम् । आहितः अस्:ि येन स तस्थ आहिताग्नः । मंत्रः पूता संत्रपूता ता मंत्रपूताम् । हिन्दी--"यह सामने" शरणागतों की रक्षा करने वाला और पवित्र करने वाला तपोवन अग्निहोत्री शरभंग मुनिका है। जिस मुनि ने बहुत समय तक अग्नि को समिधाओं से तृप्त करके अन्त में मंत्रों से पवित्र अपने शरीर को भी अग्नि में हवन कर दिया था ।। ४५ ॥ छायाविनीतावपरिश्रमेषु भूयिष्टम भाव्यफलेष्वमोषु । तस्यातिथीनामधुना सपर्या स्थिता सुपुत्रेष्विव पादपेषु ॥ ४६ ॥ अधुनास्मिन्काले तस्य शरभङ्गस्य संबन्धिन्यतिथीनां सपर्यातिथिपूजा । 'पूजा नमस्यापचितिः सपर्यार्चाहणाः समाः' इत्यमरः। छायाभिर्विनीतोऽपनीतोऽध्वपरिश्रमो यैस्तेषु भूयिष्ठानि बहुतमानि संभाव्यानि श्लाव्यानि फलानि येषां तेवमोषु पादपेधाश्रमवृक्षेषु सुपुत्रेष्विव स्थिता। तत्पुत्रैरिव पादपैरनुष्ठीयत इत्यर्थः ।। । अन्वयः-अधुना तस्य अतिथीनां सपयां छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेषु अमीषु पादपेषु सुपुत्रेषु इव स्थिता । ___ व्याख्या--अस्मिन् काले अधुना-सम्प्रति तस्य = महर्षेः शरभंगस्य अतन्ति = गच्छन्तीति अतिथयस्तेषाम् अतिथीनाम् = आगन्तुकानाम् “स्पुरावेशिक आगन्तुरतिथिर्ना गृहागते" इत्यमरः। सपर्या = पूजा, सपर्यतेऽनया सा सपर्या । सपर पूजायां कण्वादिः। छायाभिः = अनातपैः विनीतः = दूरीकृतः अध्वनः = मार्गस्य परिश्रमः खेदः येस्ते, तेषु छायाविनीताध्वपरिश्रमेषु । अतिशयेन बहूनि भूयिष्ठानि। भूयिष्ठानि = प्रभूतानि संभाव्यानि प्रशंसनीयानि फलानि = द्राक्षाम्रादीनि येषां ते तेषु भूयिष्ठसंभाव्यफलेषु अमीषु = पुरो दृश्यमानेषु पादैः पिबन्तीति पादपास्तेषु पादपेषु = आश्रमवृक्षेषु सुपुत्रेषु = सदात्मजेषु इव = यथा स्थिता = वर्तते। यथा सत्पुत्राः पितुः कार्य सम्पादयन्ति, स्वमेव एभिः शरभंगाश्रमस्य वृक्षैः अतिथिपूजानुष्ठीयते इत्यर्थः। समासः-छायाभिः विनीतः अध्वनः परिश्रमः यस्ते, तेषु छायाविनीताध्वपरिश्रमेषु । भूयिष्ठानि संभाव्यानि फलानि येषां ते तेषु भूयिष्ठसंभाव्यफलेषु । सुसमीचीनाः पुत्राः सुपुत्रास्तेषु । हिन्दी--इस समय शरभंग ऋषि के आश्रम में आने वाले अतिथियों की सेवा पूजा, अपनी छाया से पथिकों की थकावट को दूर करने वाले, तथा खूब बड़े ही मधुर फलवाले, ८ आश्रम के वृक्ष उसी प्रकार कर रहे हैं जिस प्रकार सुपुत्र अपने पिता के धर्म का पालन
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy