SearchBrowseAboutContactDonate
Page Preview
Page 1037
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः एष सुतीक्ष्णः। वाचं यच्छतीति वाचंयमो मौनव्रती। 'वाचि यमो व्रते' इति खच्प्रत्ययः। 'वाचंयमपुरंदरौ च' इति मुम् । तस्य भावस्तत्त्वान्मम प्रणति किंचिन्मूनः कम्पेन प्रतिगृह्य विमानेन व्यवधानं तिरोधानं तस्मान्मुक्ताम् । 'अपेतापोढमुक्तपतित-' इत्यादिना पञ्चमीसमासः। दृष्टिं पुनः सहस्राचिंषि सूर्ये संनिधत्ते । सम्यग्धत्ते इत्यर्थः । अन्यथाकर्मकत्वप्रसङ्गात् ॥ अन्वयः-एषः वाचंयमत्वात् मम प्रणतिं किंचित् मूर्ध्नः कम्पेन प्रतिगृह्य, विमानव्यवधानमुक्तां दृष्टिं पुनः सहस्रार्चिषि संनिधत्ते । ___ व्याख्या-एषः = सुतीक्ष्णः वाचं = वाणी यच्छति = नियमयतीति वाचंयमः । वाचंयमस्य भावः वाचंयमत्वं तस्मात् वाचंयमत्वात् = मौनव्रतित्वात् मम = रामचन्द्रस्य प्रणति = नमस्कार मत्कर्तृकं प्रणाममित्यर्थः। किंचित् = ईषत् मुह्यति अस्मिन् आहते सति स मूर्धातस्य मूर्ध्नः= मस्तकस्य कम्पनेन = चालनेन प्रतिगृह्य स्वीकृत्य, विमानेन = पुष्पकेन व्यवधानं = अन्तर्धानम् , आच्छादनं तेन मुक्ता = त्यक्ता इति विमानव्यवधानमुक्ता तां विमानव्यवधानमुक्ताम् दृष्टिं = नेत्रं पुनः=भूयः सहस्रम् अनन्तानि अचौषि =भासः यस्य स तस्मिन् सहस्रार्चिषि = सूर्य संनिधत्ते = सम्यक् निदधाति । “अन्तर्धा व्यवधा पुंसि... अच्छादनानि च" इत्यमरः। समासः-विमानेन व्यवधानमिति विमानव्यवधानं तेन मुक्ता तां विमानव्यवधानमुक्ताम् । सहस्रम् अचौंषि यस्य स सहस्रार्चिः तस्मिन् सहस्राचिंषि । हिन्दी-ये सुतीक्ष्ण मुनि, मौनव्रत वाले होने के कारण शिर को जरा झुका कर मेरे प्रणाम को स्वीकार करके, विमान के बीच में आ जाने से इनकी दृष्टि जो सूर्य से ओझल हो गई थी उसे ( विमान के हट जाने से) फिर सूर्य में लगा रहे हैं ।। ४४ ।। अदः शरण्यं शरमङ्गनाम्नस्तपोवनं पावनमाहिताग्नेः । चिराय सतर्प्य समिद्भिरग्निं यो मन्त्रपूतां तनुमप्यहौषीत् ॥ ४५ ॥ शरणे रक्षणे साधु शरण्यम् । पावयतोति पावनम् । अदो दृश्यमानं तपोवनमाहिताग्नेः शरभङ्गनाम्नो मुनेः संबन्धि । यः शरभङ्गश्चिराय चिरमग्निं समिद्भिः संतर्त्य तर्पयित्वा ततो मन्त्रः पूतां शुद्धां तनुमप्यहौषीद्धृतवान् । जुहोतेर्लुङ् ।। अन्वयः-शरण्यं पावनम् अदः तपोवनम् आहिताग्नेः शरभंगनाम्नः, यः चिराय अग्नि समिद्भिः सन्तर्प्य मंत्रपूतां तनुम् अपि अहौषीत् । ___ व्याख्या-शरणे = रक्षणे शाधु शरण्यं = आश्रयस्थानम् पावयतीति पावनम् = पवित्रकरम् अदः= पुरोऽवलोक्यमानं तपसः- तपस्यायाः वनम् = अरण्यम् , आश्रम इत्यर्थः। इति तपोवनम् आहितः = स्थापितः अग्निः = वह्निः येन सः आहिताग्निस्तस्य आहिताग्नेः = अग्निहोत्रिणः शरभंग इति नाम यस्य स शरभंगनामा तस्य शरभंगनाम्नः ऋषेः संबन्धि अस्तीति शेषः । यः = शरभंगः चिराय = बहुकालपर्यन्तम् अग्निं = वह्नि समिध्यतेऽनया समित् ताभिः समि
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy