SearchBrowseAboutContactDonate
Page Preview
Page 1032
Loading...
Download File
Download File
Page Text
________________ रघुवंशे ताग्निः । धूमस्य अग्रमिति धूमाग्रम् | त्रेताग्नेः = दक्षिणगार्हपत्याहवनीयरूपस्य, अग्रित्रयस्य धूमाग्रम्, इदमेतत् आघ्राय = घ्रात्वा रजसः == रजोगुणात् विमुक्तः = रहितः मे मम रामस्य आत्मा = अन्तःकरणं लघोः भावः लघिमा तं लघिमानं लघुत्वं, लघुत्वगुणं समश्नुते = प्राप्नोति, नैर्मल्यं शन्तिञ्च प्राप्नोतीत्यर्थः । 11 १५८ समासः - अनिन्द्या कीर्तिः यस्य स तस्य अनिन्द्यकीर्तेः । त्रेता एवाग्निः चेताग्निः, त्रेताग्नेः धूमस्य अग्रमिति त्रेताग्निधूमाग्रम् । आक्रान्तः विमानस्य मार्गः येन तत् आक्रान्तविमानमार्गम्, तत् रजसः विमुक्तः रजोविमुक्तः । हविषः गन्धः अस्यातीति हविर्गन्धि । हिन्दी - प्रशंसनीय यश वाले, प्रसिद्ध अगस्त्य ऋषि की तीनों अग्नियों ( दक्षिण, गार्हपत्य, आहवनीय नामक ) से उठे हुए, विमान के मार्ग ( आकाश ) में फैले, तथा घी की सुगन्ध वाले धुएँ को सूबकर रजोगुण से शून्य मेरा आत्मा हल्केपन का अनुभव कर रहा है । अर्थात् पवित्र धूम के स्पर्श से पवित्र होकर परमसुखशान्ति का अनुभव कर रहा हूँ ॥ ३७ ॥ एतन्मुनेर्मानिनि शातकर्णेः पञ्चाप्सरो नाम बिहारवारि । आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यमिवेन्दुबिम्बम् ॥ ३८ ॥ हे मानिनि, शातकर्णेर्मुनेः संबन्धि पञ्चाप्सरो नाम पञ्चाप्सर इति प्रसिद्धम् । पञ्चाप्सरसो यस्मिन्निति विग्रहः । पर्यन्तेषु वनानि यस्य तत्पर्यन्तवनमेतद्विहारवारि क्रीडासरो विदूरात् । मेवानामन्तरे मध्य आलक्ष्यमीषददृश्यम् । 'आङीषदर्थेऽभिव्याप्तौ ' इत्यमरः । इन्दुबिम्बमिव । आभाति ॥ अन्वयः - हे मानिनि ! शातकर्णेः मुनेः पञ्चाप्सरो नाम, पर्यन्तवनं एतत् विहारवार विदूरात् मेघान्तरालक्ष्यम् इन्दुबिम्बम् इव आयाति । व्याख्या - मानः अस्याः अस्तीति मानिनो तस्याः संबुद्धिः हे मानिनि = हे कान्ते ! शातकर्णेः : = एतन्नामकस्य मुनेः = महर्षेः अद्भय: सरन्तीति अप्सरसः । पञ्च = पञ्चसंख्यकाः अप्सरसः = देवांगनाः यस्मिन् इति पञ्चाप्सरो नाम = प्रसिद्धं पर्यन्तेषु = परिसरेषु, प्रान्तभागेष्वित्यर्थः वनानि = विपिनानि यस्य तत् पर्यन्तवनम् एतत् = पुरोवर्ति विहारार्थं = विहारयोग्यं वारि = जलं यस्मिन् तत् विहारवारि = क्रीडासरः विदूरात् = विप्रकृष्टात् मेघानां = घनानाम् अन्तरे = मध्ये आ = ईषत् लक्ष्यं = दृश्यं यत्तत् मेघान्तरालक्ष्यम् इन्दोः = चन्द्रस्य बिम्बं = मण्डलम् इव = यथा आभाति = शोभते । समासः - पञ्च अप्सरसः यस्मिन् तत् पञ्चाप्सरः । विहारस्य वारि यस्मिन् तत् विहारवारि । पर्यन्तेषु वनानि = यस्य तत् पर्यन्तवनम् । मेघानाम् अन्तरे आलक्ष्यमिति मेघान्तरालक्ष्यम् । इन्दो: बिम्बमिति इन्दुबिम्बम् । हिन्दी - हे प्रिये ! शातकणि ऋषि का पञ्चाप्सर नाम का ( पांच अप्सराएँ जिसमें हैं ) क्रीडासर ( मनोरञ्जन का तालाब ) है । यह चारों ओर से घोर जंगलों से घिरा हुआ होने
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy