SearchBrowseAboutContactDonate
Page Preview
Page 1031
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः नहुषम् = ययातः पितरम् , मह्यते = पूज्यते, इति मघवा तस्य मघोनः =इन्द्रस्य पदात् = स्थानात् , इन्द्रत्वादित्यर्थः । प्रभ्रंशयाञ्चकार =पातयामास । आविलं = कलुषं, मलिनञ्च तदम्भः = जलं, तस्य परिशुद्धिः = प्रसादः, नैर्मल्यं तस्याः हेतुः = कारणं तस्य आविलाम्भःपरिशुद्धिहेतोः, शरदि अगस्त्यनाम्नो नक्षत्रस्योदये आविलं जलं निर्मलं भवतीति प्रसिद्धिः। “कलुषोऽनच्छ आविलः इत्यमरः । तस्य = प्रसिद्धस्य मुनेः = अगस्त्यस्य भूमौ = पृथिव्यां भवः भौमः = परिगृह्यते इति परिग्रहः। स्थानमेव परिग्रहः इति स्थानपरिग्रहः= आश्रमः अयं = पुरोवती अवलोक्यते इति शेषः । भौमः इति कथनेन ज्ञायते यत् दिव्योऽपि मुनेः आश्रमोऽस्तीति । समासः-भ्रवः भेदः भ्रूभेदः। भ्रूभेद एव भ्रूभेदमानं तेन भ्रूभेदमात्रेण। आविलञ्च तदम्भः आविलाम्भस्तस्य परिशुद्धिस्तस्याः हेतुस्तस्य आविलाम्भःपरिशुद्धिहेतोः । स्थानमेव परिग्रहः इति स्थानपरिग्रहः । हिन्दी-जिस मुनि ने केवल भ्रुकुटि टेढ़ी करके ( किंचित् क्रोध से ) राजा नहुष को इन्द्र के पद से नीचे गिरा दिया था, और जो मुनि वर्षा से मटमैले जल की स्वच्छता का कारण है, यह सामने उसी अगस्त्यमुनि का पृथिवी पर आश्रम दीख रहा है ॥ _ विशेष-चन्द्रवंशी राजा नहुष बड़ा ही बलवान् , बुद्धिमान् था। वह ययाति का पिता, और आयुस् का पुत्र था। वृत्रासुर को मारने से इन्द्र को ब्रह्महत्या लगी थी। जब उसका प्रायश्चित्त करने इन्द्र एक सरोवर में जा छिपा तो, नहुष को इन्द्रासन पर बैठा दिया। तब इन्द्राणी के प्रेम को पाने के लिये सप्तर्षियों को पालकी में जोतकर इन्द्रभवन को चला, मार्ग में ऋषियों से सर्प-सर्प ( शीघ्र चलो ) कहा तभी अगस्त्य मुनि ने साँप बन जाने का शाप देकर स्वर्ग से पृथिवी पर गिरा दिया था। फिर युधिष्ठिर ने इसका उद्धार किया था। अगस्त्योदय होने पर शरदृतु में जल स्वच्छ हो जाता है ॥ ३६ ॥ बेताग्निधूमाग्रमनिन्द्यकीर्तस्तस्येदमाक्रान्तविमानमार्गम् । घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानमात्मा ॥३७॥ अनिन्द्यकीतेस्तस्यागस्त्यस्याक्रान्तविमानमार्गम् । हविर्गन्धोऽस्यारतीति हविर्गन्धि त्रेताग्निरग्नित्रयम् । 'अग्नित्रयमिदं त्रेता' इत्यमरः। पृषोदरादित्वादेत्वम् । त्रेताग्ने—माग्रमिदं प्रात्वाघ्राय रजसो गुणाद्विमुक्तो मे ममात्मान्तःकरणं लघिमानं लघुत्वगुणं समश्नुते प्राप्नोति ॥ अन्वयः-अनिन्द्यकीर्तेः तस्य आक्रान्तविमानमार्ग हविर्गन्धि त्रेताग्निधूमाग्रम् इदं प्रात्वा रजोविमुक्तः मे आत्मा लघिमानं समश्नुते । व्याख्या-न निंद्या अनिन्द्या = प्रशंसनीया कीर्तिः = यशो यस्य सः अनिंद्यकीर्तिरतस्य अनिंद्यकी: = धवलयशस इत्यर्थः। तस्य = अगस्त्यस्य आक्रान्तः = व्याप्तः विमानस्य = पुष्पकस्य मार्गः = पन्थाः येन तत् आक्रान्तविमानमार्गम् , हविषः =घृतस्य गन्धः =सुरभिः अस्यास्तीति तत् हविर्गन्धि "घृतमाज्यं हविः सर्पिः" इत्यमरः । त्रायन्ते इति त्राः = आहुतयः,ताभिः इता त्रेता। त्रीन् भेदान् एति = प्राप्नोतीति त्रेता, त्रित्वमिता वा त्रेता। त्रेता एव अग्निः= वह्निरिति
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy