SearchBrowseAboutContactDonate
Page Preview
Page 1024
Loading...
Download File
Download File
Page Text
________________ रघुवंश समासः--तव विप्रयोगः त्वद्विप्रयोगस्तेन यदश्रु त्वद्विप्रयोगाश्रु । हिन्दी-यह देखो सामने माल्यवान् नामक पर्वत का आकाश को छूने वाला शिखर ( ऊँची चोटी ) दिखाई दे रहा है। जहाँ पर वादलों ने नया जल और मैंने तुम्हारे वियोग ( विछोह ) से निकले आँसू एक साथ छोड़े थे। अर्थात् वरसते बादलों को देखकर तुम्हारी याद करके मैं खूब रोया था ।। २६ ॥ गन्धश्च धाराहतपल्वलानां कादम्बमोद्गतकेसरं च । स्निग्धाश्व केकाः शिखिना बभूवुर्यस्मिन्नसह्यानि विना त्वया मे ॥२७॥ यस्मिन्छङ्गे धाराभिर्वर्षधाराहतानां पल्वलानां गन्धश्च । अधोद्गतकेसरं कादम्बं नीपकुसुमं च स्निग्धा मधुराः शिखिनां बहिणाम् । 'शिखिनी वह्निबहिणी' इत्यमरः । केकाश्च । त्वया विना मेऽसह्यानि बभूवुः । 'नपुंसकमनपुंसकेन-' इति नपुंसकैवशेषः ॥ अश्वयः—यस्मिन् धाराहतपल्वलानां गन्धः, अधोंद्गतकेसरं कादम्बं च स्निग्धाः शिखिनां केकाः च त्वया विना मे असह्यानि बभूवुः । व्याख्या-यस्मिन् =माल्यवतः शिखरे धाराभिः= वृष्टिधाराभिः आहतानि =ताडितानि यानि पल्वलानि = अल्पसरांसि तेषां धाराहतपल्वलानां, वर्षाधारापातास्पदानामल्पसरसामित्यर्थः । 'पल्वलं चाल्पसरः' इत्यमरः, गन्धः = आमोदः । अर्धम् उद्गतमिति अर्थोद्गतम् । अर्थोद्गतं = किचिद्विकसितं केसरं = किचल्क यस्य तत् अधोद्गतकेसरं कद्यते =दर्शनात् विरहिणां चित्तवैकल्पं जायतेऽनेन स कदम्बः = नीपः। कदम्बस्येदं कादम्बं = कदम्बपुष्पञ्च स्निग्धाः मधुराः शिखाः सन्ति येषां ते शिखिनस्तेषां शिखिना = मयूराणां केकाः= वाण्यः च त्वया =सीतया विना मे = मह्यम् सोढुं योग्यानि सह्यानि । न सह्यानि असह्यानि = सोढुमशक्यानि बभूवुः =जातानि । सह्यञ्च सह्यश्च सह्याश्चेत्यत्र “नपुंसकमनपुंसकेन०" इति सूत्रेण अक्लीवेन सहोक्तौ क्लीबं वा शिष्यते, इति नपुंसकैकशेषः। समासः--धाराभिः आहतानि यानि पल्वलानि तेषां धाराहतपल्वलानाम् । अर्धमुद्गतमिति अधोद्गतम् । अधोंद्गतं केसरं यस्य तत् अधोद्गतकेसरम् । न सह्यानि असह्यानि । हिन्दी-और जिस माल्यवान् की चोटी पर वर्षा की धारा से प्रहत अर्थात् भीगी तलयों की गन्ध और अधखिले कदम के पुष्प ( फूल ) तथा मधुर प्यारी मयूरों की वाणी, ये सब हे प्रिये ! तुम्हारे विना मुझे असह्य हो गये थे ॥ २७ ॥ पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु तवोपगूढम् । गुहाविसारीन्यतिवाहितानि मया कथंचिद्धनगर्जितानि ॥ २८ ॥ किंच हे भीरु, यत्र शृङ्गे पूर्वानुभूतं कम्पोत्तरं कम्पप्रधानं तवोपगूढमुपगृहनं स्मरता मया गुहाविसारीणि घनगर्जितानि कथंचिदतिवाहितानि । स्मारकत्वेनोद्दीपकत्वाक्लेशेन गमितानीत्यर्थः॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy