SearchBrowseAboutContactDonate
Page Preview
Page 1023
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः १४९ मृग्यश्च दर्भाङ्करनिर्व्यपेक्षास्तवागतिजं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥ २५ ॥ दर्भाङ्करेषु भक्ष्येषु निर्व्यपेक्षा निःस्पृहा मृगाङ्गनाश्वोत्पत्मराजीनि विलोचनानि दक्षिणस्यां दिशि व्यापारयन्त्यः प्रवर्तयन्त्यः सत्यस्तवागतिशं गत्यनभिज्ञं मां समबोधयन् । दृष्टिचेष्टया त्वद्गतिमवबोधयन्नित्यर्थः ॥ अन्वयः-दर्भाकुर नियंपेक्षाः मृग्यः उत्पक्ष्मराजीनि विलोचनानि दक्षिणस्यां दिशि व्यापारयन्त्यः तव अगतिशं माम् समबोधयन् ॥ व्याख्या-दर्भाणां = कुशानाम् अंकुराः = अभिनवोद्भिदः, इति दर्भाकुराः विशिष्टा अपेक्षा, व्यपेक्षा, निर्गता व्यपेक्षा यासां ताः नियंपेक्षाः। दर्भाकुरेपु = भक्षणीयेषु नियंपेक्षाः= स्पृहाशून्याः, इति दर्भाकुरनियंपेक्षाः मुग्यन्ते व्याधैः यास्ताः मृग्यः = हरिण्यः उत् = ऊर्ध्व पक्ष्मणां= नेत्ररोमाणां राजी = पंक्तिः येषां तानि उत्पक्ष्मराजीनि विशेषेण लोच्यते = दृश्यते यैरतानि विलोचनानि = नेत्राणि दक्षिणस्यां = अवाच्यां दिशि = काष्ठायां व्यापारयन्त्यः= प्रवर्तयन्त्यः सत्यः तस्मिन् दिग्भागे नेत्राणि प्रक्षिपन्त्यः इत्यर्थः तव = भवत्याः सीतायाः गतिं जानातीति गतिज्ञः, न गतिज्ञः इति अगतिज्ञस्तम् अगतिशम् = गमनमार्गज्ञानरहितम् मां = रामं समबोधयन् = अज्ञापयन् । नेत्रचेष्टया तव गमनमार्गमबोधयन्नित्यर्थः । समासः-दर्भाणामङ्कराः दांकुरास्तेपु निर्गता व्यपेक्षा यासां ताः दर्भाकुरनिर्व्यपेक्षाः । न गतिज्ञः अगतिशस्तम् अगतिज्ञम् । उत् पक्ष्मणां राजी येषां तानि, उत्पक्ष्मराजीनि । हिन्दी-कुशा के नए-नए खाने योग्य अंकुरों ( कोंपलों) में निस्पृह होकर ( खाने को अभिलाषा छोड़कर ), हरिणियों ने भी उठी हुई पलकों वाले, अपने नेत्रों को दक्षिण दिशा की ओर करके, तुम्हारी गति को न जाननेवाले मुझे तुम्हारे मार्ग का ज्ञान कराया था ॥ २५ ॥ एतद्विरेर्माल्यवतः पुरस्तादाविर्भवत्यम्बरलेखि शृङ्गम् । नवं पयो यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ॥ २६ ॥ माल्यवतो नाम गिरेरम्बरलेख्यभ्रषं, शृङ्गमेतत्पुरस्तादग्र आविर्भवति । यत्र शृङ्गे धनैर्मेधैर्नवं पयो मया त्वद्विप्रयोगेण यदश्रु तच्च समं युगपद्विसृष्टम् । मेवदर्शनाद्वर्षतुल्यमश्रु विमुक्तमिति भावः। अन्वयः-माल्यवतः गिरेः अम्बरलंखि शृंगम् एतत् पुरस्तात् आविर्भवति । यत्र धनैः नवं पयः मया त्वद्विप्रयोगाश्रु च समं विसृष्टम् । व्याख्या-माल्याकारता अस्यास्तीति माल्यवान् तस्य माल्यवतः एतन्नामकस्य गिरेः= पर्वतस्य अम्बं = शब्दं रातीत्यम्बरम् = आकाशं लिखतीति तत् अम्बरलेखि= गगनचुम्बि शृंगं = शिखरम् एतत् पुरस्तात् = अग्रे आविर्भवति = प्रकटं भवति दृश्यत इत्यर्थः । यत्र = माल्यवच्छिखरे धनैः = मेघैः नवं = नूतनं पयः = जलं मया = त्वद्वियोगिना रामेण तव =सीतायाः विप्रयोगः = विरहः इति त्वद्विप्रयोगस्तेन यदश्रु- नेत्रजलं तत् त्वद्विप्रयोगाश्रु च समं = युगपत् = एककालमित्यर्थः । विसृष्टं = त्यक्त युक्तमित्यर्थः । मेघदर्शनेन मम वर्षासममश्रुवर्षणं जातमिति।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy