________________
२२२]
[ મહામણિ ચિંતામણિ
मुमुक्षुमुख्यायतनं विभान्तं दिगन्तविश्रान्त विभावितानम्
तीर्थङ्कराणां प्रणतिं विधाय स्तुतिं व्यधत्त प्रभूणां स भक्तया || १८ || ( युग्मम्)
विधाय प्रीत्योत्करचैत्यवन्दनं प्रदक्षिणीकृत्य जिनेन्द्रराजिम् मेनेनिजं जन्म कृतार्थमिन्द्रभूतिः समुन्मूलितकर्मराशिः अथाऽऽप्तसर्वस्व इवाऽतिहृष्टः पूर्णात्मकामश्च विभुप्रभावात् स्मरन् गुणस्तीर्थकृतां स भव्यानवातरद् भूरिमुदा गिरीन्द्रात् तीर्थप्रभावेन पवित्रिताऽऽत्मा ज्ञानप्रभामासुर - दिव्यवेदः अक्षीणलब्धिप्रथितप्रभावो निवर्त्तमानः स महानुभावः वहन्यंभ्रबाणेन्दुमितांस्तपस्विनः प्रपेदिवान् ध्याननिमग्न चेतसः मार्गेस्थितान् गन्तुमशक्तदेहा - नष्टापदं तीर्थकृतां दिदृक्षया तपः प्रभावेण विराजमानास्त्यक्ताऽशना निर्मलचित्तभावाः स्थिराशयास्तत्रं यियासवस्ते सर्वे हि वाञ्छन्त्यनुकूललाभम् समीक्ष्यतत्तापसवृन्दमारा-द्वतीन्द्रइष्टार्थ विधानदक्षः सभाजितस्तै निजदृष्टिवक्षै स्तस्थौ क्षणं तत्र परोपकृत्यै महामहिम्नां वरमास्पदं यो निदानमेकं सुखसम्पदानाम् नानाऽर्थलब्धिप्रभवो बभूव प्रत्यक्षमूर्तिः शुभभावनानाम् योऽपूरयत्कामितमङ्गभाजां चिन्तामणिश्चिन्तयतामिवाशु विघ्नौधकाराङ्गणसेविनश्च निजप्रभावेण चकार मुक्तान् यो दिव्यलब्धिप्रथितः पृथिव्यां समुद्दधारेह दयार्द्रचेताः धर्मक्रियादीनमतीनतीतान्नतिप्रवीणान् भवतापतप्तान् योऽक्षीणलब्धिप्रचितस्वभावः श्रियाऽक्षयाऽऽनन्दविभूषिताङ्ग्या । नित्यं समासेवितपादपद्मः सम्यक्प्रभाभावितमानसो हि यन्नामाक्षर कीर्त्तनेन मनुजाः प्रातर्मनोवाञ्छितं सेवन्ते निखिलापदो विषसमा व्यावर्त्तयन्ति क्षणात् । प्रत्यक्षं कलयन्ति दुर्लभतरं वस्तुप्रकाण्डं परं दुष्टग्राहसमाकुलं जलनिधिं पश्यन्ति कासारवत् यदीयनामस्मरणेन नूनं नश्यन्ति भूतादिमहोपसर्गाः । रुजार्तिताः स्वर्गसमानवेदा दुःस्वप्रभाजोऽपि शुभान्विताः स्युः ||३०|| यदीयनाम्नि स्मृतिगोचरं गते व्यालः करालः सुममालिकायते । विरोधिवर्गः शुभकिङ्करायते पञ्चाननौधः स्वयमाविकायते 113911 स्मरन्ति यन्नाम विभातकाले महाशया ये शिवभूतिकामाः । तेषां न दारिद्रपिशाच ईशः पराजयं कर्तुमनर्थमूलः
||२७||
||२८||
||१६||
||२०||
॥२१॥
||२२||
॥२३॥
॥२४॥
॥२५॥
॥२६॥
||२६||
॥३२॥