________________
શ્રી ગુરુ ગૌતમસ્વામી ]
[ २२१
॥२॥
॥५॥
||७||
व्यभूषयद् गोबरपत्तनं यो मातायदीया पृथिवी सुशीला । पिता यदीयो वसुभूतिविप्र-स्तमिन्द्रभूतिं गणिनं नमामि श्री वाडवज्ञातिनभोमणिों वेदान्तविद्यासु महाप्रवीणः यज्ञादिकार्येषु सदाऽनुरक्तो व्यस्तारयदिक्षुगुणान् स्वकीयान् ।।३।। येनात्मवंशोन्नतिरुन्नतेन सतां मतेनोच्चगुणालयेन तेने महानन्दमयेनशस्त-व्रताऽनुयोगेन दयामयेन
||४|| सर्वसदानाथनतक्रमेण क्रमेण लूनाऽखिलविघ्नकेन येन क्रियाकाण्डरतेन भूति-र्वत्रे जगद्विस्मयदानदक्षा योऽदीनभावः शुभभावनाभि विद्यावतां पूज्यमहाप्रभावः विस्तारयामास गुणानुवादी ग्रन्थाननेकाजिनवम॑गामी
॥६॥ विभावितात्माऽनुभवः सुयोगी प्रशस्तलब्धिप्रथितप्रभावः योऽधारयन्मुख्यगणाऽऽधिपत्यं जिनेशितुः पादसरोजसन्निधौ संपादिताऽनेकमदद्धिको यः संपादयामास मनोऽर्थितानि नानाविधान्यक्षतलब्धियोगाच्चारित्रसाम्राज्यविभासितानाम्
॥८॥ वसुन्धरा रलवती बभूव यज्जन्मना शान्तिनिकेतनेन प्रभाविनांदिप्रभवोऽत्र लोके लोकोपकाराय बुधैः प्रदिष्टः ।।६।। यो भूरिभाग्योपचयेन भूमौ विभूति-सारे वसुभूतिगेहे क्रीडाविलासं विमलं विधातु-मियेषधर्मप्रथनाऽभिलाषः ||१०|| सुराऽसुरेन्द्रस्पृहणीयशील आजन्मनः श्लाघ्यगुणाऽनुवादः तत्त्वोपदेशेन समुद्धरन् यो, वृन्दं जनानां प्रबभौ नतानाम् ॥११॥ प्रशासको दुर्नयमानवानां निवारकोऽधर्ममतोद्यतानाम् प्रभावको यो हि बभूव धर्म-तत्त्वस्य भेत्ता भवबन्धनस्य ॥१२॥ यः पुण्डरीकाऽध्ययनं ततान तेनैव संबोधयति स्म नूनम् तिर्यङ्मथाज्टम्भक लोकपालं गुणानुरक्तंगणभृद्वरेण्यः ।।१३।। योऽष्टापदं तीर्थवरं स्वशक्त्या, तपस्विनां विस्मयमादधानः तीर्थंकरध्याननिमग्नचेता गत्वा महानंदमियाय योगी
||१४|| अष्टापदं दिव्यगिरीन्द्रमेतुं तपस्विनः केचनबद्धकक्षाः तथाऽपि तदर्शनमेव तेषां जातं न पूर्वार्जितिकर्मदोषात् ॥१५।। योऽष्टापदं याति धराधरेन्द्रं तस्मिन् भवे मोक्षगतिं स याति दिव्योक्तिमित्थं हि निशम्य वीरगिराऽतित्सृष्टः प्रययौ गिरिंतम् ।।१६।। अष्टापदं निर्जरराजशैल-मासाद्य लोकोत्तरसम्पदाढ्यम् सुराऽसुरेन्द्रप्रथितप्रभावं स्वतेजसा निर्मितभानुमन्तम्
||१७||