SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ जइ - जीयकप्पो भवति । दिवा शयानोऽसंयतैर्दृष्टस्ततस्ते चिन्तयन्ति-यथा एष निक्षिप्तस्वाध्यायध्यानयोगः स्वपिति तथा एष लक्ष्यते रात्रौ रतिक्लान्तः, एवमुड्डाहो भवति । विराधना सुप्तस्याग्निप्रदीपने दाहेन, निद्रावृद्धिश्च भवति । यत उक्तम्वर्द्धन्ते पञ्च कौन्तेय ! सेव्यमानानि नित्यशः । आलस्यं मैथुनं निद्रा क्षुधा क्रोधश्च पञ्चमः ।। स्त्यानर्द्धिनिद्राप्रायश्चित्तं त्वग्रे पाराञ्चिकप्रायश्चित्ताधिकारे भणिष्यते । एवमत्र वयछक्ककायछक्क' मित्यादिगाथासङगृहीतमूलोत्तरगुणविषयं प्रायश्चित्तं पूर्व प्रतिपादितम्, तदनु एकोनविंशतिगाथाभिः सामान्यत उत्तरगुणविषयविशकलितातिचारप्रायश्चित्तमभिहितम् । तदेवं मूलोत्तरगुणविषयातिचारप्रायश्चित्तप्रतिपादनेन समर्थितं चारित्राचारातिचारप्रायश्चित्तम् ।।२२६।। अथ तपआचारातिचारप्रायश्चित्तं प्रतिपिपादयिषुराह दुविहतवपरूवणया सट्ठाणारोवणा तमकरते । सवत्थ होइ लहुओ लीणविणयझाय मुत्तूणं ।।२२७।। (नि०भा० ४१) व्याख्या-तपो विधा-बाह्यमभ्यन्तरं च । तत्र बाह्यमनशनादि । यदुक्तम्अणसणमूणोअरिआ वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणता. य बझो तवो होइ' ।। (नवतत्वप्रकरणम् ३४) अभ्यन्तरं तु प्रायश्चित्तादि । उक्तं चपायच्छित्तं विणयो वेआवच्चं तहेव सज्झाओ । झाणं उस्सग्गोवि अ अभिंतरओ तवो होइ' ।। (नवतत्वप्रकरणम् ३५) तयोः प्ररूपणा नाम प्रज्ञापना, यथा द्रुमपुष्पिकाध्ययने । द्विविधमपि तत्तपोऽकुर्वतः स्वस्थानारोपणा स्वस्थानप्रायश्चित्तं भवति । तच्चेदं सव्वत्थ होइ लहुओ' त्ति । सर्वेष्वनशनादितपोभेदेषु संलीनताविनयस्वाध्यायवर्जेषु शक्तौ सत्यामकृतेषु लघुमासो भवति ।।२२७।। अथाऽवतिष्ठमानसंलीनतादितपोभेदत्रयप्रायश्चित्तं क्रमेणाह दबंमि असंलीणे थीनपुसंसत्तवसहीए गरुगा। पुरिसतिरिएहि लहुगा भावे घाणिदिए रागे ।।२२८।। गुरुगो लहुगो दोसे गुरुगा सेसेसु रागि लोभे अ। दोसे स कोहमाणे लहुगा गुरुगो अ मायाए ।।२२९ ।। व्याख्या-संलीनता द्विधा-द्रव्यसंलीनता भावसंलीनता च । तत्र द्रव्यसंलीनता स्त्रीपशुपण्डकसंसक्तवसतिविवर्जनम्। A. विभागतः ।
SR No.032471
Book TitleJai Jiyaappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy