SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ जइ - जीयकप्पो जइ एगभाणजिमिआ गिहिणो वि हु दीहसोहिआ हुंति । निणवयणबाहिरा वि अ धम्म पुण्णं अयाणंता ।। किं पुण जगजीवसुहावहेण संभुंजिऊण समणेणं । सक्का हु इक्कमिक्के रक्खिउ जह अप्पणो देहो' ।। __ (नि०भा० ५९४१ - ५९४२) अशिवादिकारणैः पुनः स्थानाऽदानेऽपि न दोषः ।।२२२।। तथा पुरिमचरिमासु पत्तादपेहि सज्झायअकरणे लहुगा । नियमे चेइअवंदणि संघस्स अखामणे गुरुगा ।।२२३ ।। व्याख्या-प्रथमचरमपौरुष्योः पात्रायप्रत्युपेक्षणे पात्रकस्य, आदिशब्दात् मात्रकादेरप्रतिलेखने स्वाध्यायाकरणे च चतुर्लघुकाः । नियमे सति चैत्याऽवन्दने सङ्घस्य चतुर्विधस्याप्यक्षामणे च चतुर्गुरुकाः ।। २२३ ।। तथा बिट्ठपडिकमणि लहुगा गुरुगा निक्कारणोवविट्ठस्स ।। पडिकमणाकरणे थुक्कमाइपयघट्टणे गुरुगा ।।२२४ ।। व्याख्या-उपविष्टः सुप्तो वा यदि प्रतिक्रमणं करोति तदा चतुर्लघुकाः । निष्कारणोपविष्टस्य चतुर्गुरुकाः । तथा सर्वस्यापि प्रतिक्रमणस्याकरणे चतुर्गुरुकाः । तथा गुरोः आचादिः थुक्कादिलगने थुक्कश्लेष्मादिलगने पदेन घट्टने चतुर्गुरुकाः ।।२२४।।। लहु अप्पे वि हु तलि अंधकारगमि जीणमाइपरिभोगे । तुंबाइबीअवणयणि पडिक्कमणे चिइअवंदणए ।।२२५।। व्याख्या-अल्पेऽपि तलिकापरिभोगेन गमने, अल्पेऽप्यन्धकारगमने, जीणं जयनं तच्च प्रतीतमेव, आदिशब्दादन्यदपि तथाविधं दुष्प्रतिलेख्यं गृह्यते, तस्य परिभोगे, तुम्बादीनामलाबूदङ्कादीनां बीजापनयने, भाजनार्थं जिघृक्षया गृहस्थादिभिर्बीजनिष्कासने, प्रतिक्रमणे प्राभातिकप्रादोषिकप्रतिक्रमणमध्ये चैत्याऽवन्दने च । एतेषु सर्वेष्वपि प्रत्येकं लघुमासः ।।२२५।। तथा दिवसनिसि पढमचरिमे चउनिदासेवणे लहू मासा । आणऽणवत्थुड्डाहो विराहणा निद्दवुड्ढी अ ।।२२६ ।। (नि०भा० १३४) व्याख्या-दिवसस्य चतुर्वपि यामेषु, निशायाः पुनः प्रथम चरमे वा यामे चतस्रो निद्राः निद्रा-निद्रानिद्राप्रचला-प्रचलाप्रचलालक्षणाः तासामासेवने प्रत्येकं लघुमासः । निद्रायां द्वाभ्यां लघुः । अतिनिद्रायां कालगुरुः । प्रचलायां तपोगुरुः । अतिप्रचलायां द्वाभ्यामपि गुरुः । निद्रां कुर्वतां चेमे दोषाः-भगवता प्रतिषिद्धे काले स्वपता आज्ञाभङ्गः कृतो भवति । आज्ञाभङ्गे च चरणभङ्गो, यतो भणितम्- आणाइ च्चिअ चरणं तभंगे जाण किं न भग्गं तु ?' एकः प्रतिषिद्धकाले स्वपिति, अन्योऽपि तं दृष्ट्वा स्वपितीत्येवमनवस्था A. दीर्घमैत्रीमन्तः ।
SR No.032471
Book TitleJai Jiyaappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy