SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ कालाकाङ्क्षी परिव्रजेत् [श्रु०१। अ०३। उ०२। सू०११६] से हु इत्यादि । सः अनन्तरोक्तो मुनिः दृष्टं संसारादै भयं सप्तप्रकारं वा येन स . तथा, हुः अवधारणे, दृष्टभय एव । किञ्च लोगंसि परमदंसी विवित्तजीवी उवसंते समिते सहिते सदा जते कालकंखी परिव्वए । लोयंसि इत्यादि । लोके द्रव्याधारे चतुर्दशभूतग्रामात्मके वा, परम: मोक्षः तत्कारणं वा संयमः, तं द्रष्टुं शीलमस्य इति परमदर्शी; तथा विविक्तं स्त्री-पशु-पण्डकसमन्वितशय्यादिरहितं द्रव्यतः, भावतस्तु राग-द्वेषरहितं असङ्क्लिष्टं जीवितुं शीलमस्य इति विविक्तजीवी । यश्चैवम्भूतः स इन्द्रिय-नोइन्द्रियोपशमाद् उपशान्तः; यश्च उपशान्तः स पञ्चभिः समितिभिः सम्यग् वा इत:=गतो मोक्षमार्गे समितः; यश्चैवं स ज्ञानादिभिः सहितः =समन्वितः; यश्च ज्ञानादिसहितः से सदा यतः=अप्रमादी; किमवधिश्च अयमनन्तरोक्तो गुणोपन्यासः ? इत्याह काल० इत्यादि । कालः मृत्युकालः, तं आकाक्षितुं शीलमस्य इति कालाकाङ्क्षी; स एवम्भूतः परिः समन्ताद् व्रजेत्=परिव्रजेत्, यावत् पर्यायागतं पण्डितमरणं तदाकाङ्क्षमाणो विविक्तजीवित्वादिगुणोपेतः संयमानुष्ठानमार्गे परिष्वष्केदिति । स्यादेतत्- किमर्थमेवं क्रियते ? इत्याहबहुं च खलु पावं कम्मं पगडं ॥११६॥ बहुं च इत्यादि । मूलोत्तरप्रकृतिभेदभिन्न प्रकृति-स्थिति-अनुभाव-प्रदेशबन्धात्मकं बन्ध-उदय-सत्कर्मताव्यवस्थामयं तथा बद्ध-स्पृष्ट-निधत्त-निकाचितावस्थागतं कर्म; तच्च न हसीयसा कालेन क्षयमुपयाति इत्यतः कालाकाङ्क्षी इत्युक्तम् । तत्र बन्धस्थानापेक्षया तावत् मूलोत्तरप्रकृतीनां बहुत्वं प्रदर्श्यते, तद्यथा सर्वमूलप्रकृती: बेध्नतोऽन्तर्मुहूर्तं यावदष्टविधम्; आयुष्कवर्जं सप्तविधम्, तज्जघन्येन अन्तर्मुहूर्तं उत्कृष्टतः तद्रहितानि त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटित्रिभागाभ्यधिकानि; सूक्ष्मसाम्परायिकस्य मोहनीयबन्धोपरमे आयुष्कबन्धाभावात् षड्विधम्, एतच्च जघन्यतः सामयिकम्, उत्कृष्टतस्तु आन्तमॊहूर्तिकमिति; तथा उपशान्त-क्षीणमोह टि० १. ०द्भयं येन स क ॥ २. स हि सदा ङ॥ ३. ०कालं मृत्युमाकाङ्क्षितुं ख ॥ ४. ०मरणं तावदाकाङ्क्षमाणो ख च ।। ५. बध्नतो मुहूर्तं ख ।। ६. ०सम्परायस्य कप्रतिमृते ।। ७. ०तस्त्वन्तर्मुहूर्त्तमिति ख विना ॥ वि०टि० ॐ "तद्रहितानि देव-मनुज(जा)युर्बन्धान्तर्मुहूर्ताभ्यां रहितानि' जै०वि०प० ॥ २९५
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy