________________
[श्रु०१। अ०३। उ०२। सू०११६] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
"न मोहमतिवृत्य बन्ध उदितस्त्वया कर्मणां, न चैकविधबन्धनं प्रकृतिबन्धविभवो महान् । अनादिभवहेतुरेष न च बध्यते नासकृत्,
त्वयाऽतिकुटिला गतिः कुशल ! कर्मणां दर्शिता ॥" [ सिध्ध०द्वात्रिं०द्वात्रिं०३/२९] तथा च आगमः
"क हन्नं भंते ! जीवा अट्ठ कम्मपगडीओ बंधंति ? गोयमा ! णाणावरणिज्जस्स उदएणं दरिसणावरणिज्जं कम्मं नियच्छति, दरिसणावरणिज्जस्स कम्मस्स उदएणं दंसणमोहणीयं कम्मं नियच्छति, दंसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं नियच्छइ, मिच्छत्तेणं उदिण्णेणं एवं खलु जीवे अट्ठ कम्मपगडीओ बंधति ।"
__[प्रज्ञा०सू०२३/१६६७] क्षयोऽपि मोहनीयक्षयाविनाभावी, उक्तं च
"णायगम्मि हते संते, जहा सेणा विणस्सति ।
एवं कम्मा विणस्संति, मोहणिज्जे खयं गए ॥" [ ] इत्यादि । अथवा मूलं असंयमः कर्म वा, अग्रं संयम-तपसी मोक्षो वा । ते मूला-ऽग्रे धीरः अक्षोभ्यो धीविराजितो वा विवेकेन सुख-दुःखकारणतया अवधारय । किञ्च
पेलिछिदियाणं इत्यादि । तपः-संयमाभ्यां रोगादीनि बन्धनानि तत्कार्याणि वा कर्माणि छित्त्वा निष्कर्मदर्शी भवति, निष्कर्माणं आत्मानं पश्यति, तच्छीलश्च निष्कर्मत्वाद् वा अपगतावरणः सर्वदर्शी सर्वज्ञानी च भवति ।।११५(७)।
यश्च निष्कर्मदर्शी भवति सोऽपरं किमाप्नुयात् ? इत्याह[ सू०] एस मरणा पमुच्चति, से हु दिट्ठभये मुणी।
एस इत्यादि । एष इति अनन्तरोक्तो मूला-ऽग्रविवेचको निष्कर्मदर्शी मरणात् आयुःक्षयलक्षणाद् मुच्यते, आयुषो बन्धनाऽभावात् । यदि वा आजवञ्जवीभावाद् आवीचीमरणाद् वा, सर्व एव संसारो मरणम्, तस्मात् प्रमुच्यते । यश्चैवं स किम्भूतो भवति ? इत्याह
टि० १. णाणावरणिज्जस्सोदएणं दंसणावरणस्स (०वरणं) कम्मं नियच्छइ । दसणावरणिज्जस्सोदएणं दंसणमोहणिज्जं कम्मं ख ॥ २. ०मोहणिज्जकम्मं च ॥ ३. उदिण्णे खलु ख ॥ ४. ०न दुःख-सुखकरण ख विना ॥ ५. पलिच्छिदिया क ख ॥ ६. रागादिनिबन्धनानि झअव० ॥ ७. मूला-ऽग्ररेचको कआदर्शमृते ॥
२९४