SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ बिठलाया। प्रेषय = भेजो। निवेदयामास = निवेदन किया। अभिषिषिचुः = अभिषेक किया। निहत्य = मारकर। नियोजयामास = नियुक्त किया। जग्राह = पकड़ा। समर्पयाञ्चकार = अर्पण किया। (16) श्रीरामचन्द्रस्य राज्याभिषेकः (1) श्रीरामचन्द्रः दशरथस्य आदेशाद् वनं गत्वा तत्र लङ्काधिपति रावणं निहत्य, चतुर्दश-संवत्सरान्ते, भार्यया सीतया, भ्रात्रा लक्ष्मणेन, हनूमत्प्रभृतिभिः वानरैः च सह अयोध्यां राजधानी प्रतिनिववृते। (2) तदा श्रीरामचन्द्रस्य मातरः, भरतः, शत्रुघ्नः, मन्त्रिणः, सकलाः पौराश्च' आनन्दस्य परां कोटिम् अधिजग्मुः । (3) ततो भरतः सुग्रीवम् उवाच-हे प्रभो ! श्रीरामचन्द्रस्य अभिषेकार्थं शुभं सिन्धुजलमानेतुं दूतान् आशु प्रेषय इति । (4) तदनु सुग्रीवो वानरश्रेष्ठान् तस्मिन् कर्मणि नियोजयामास। (5) ते जलपूर्णान् सुवर्णकलशान् सत्वरं समानिन्युः । (6) तत्पश्चात् द् रामस्य अभिषेकार्थं शत्रुघ्नो वसिष्ठाय निवेदयामास । (7) ततो वसिष्ठो मुनिः सीतया सह रामं रत्नमये पीठे सन्निवेशयाञ्चकार । (8) अनन्तरं सर्वे मुनयः श्रीरामचन्द्रं पावनजलैरभिषिषिचुः। (9) तत्पश्चात् महार्ह रत्नकिरीटं वशी वसिष्ठः श्रीरामचन्द्रस्य मूर्धनि स्थापयामास। (10) तदानीं रामस्य शीर्षोपरि पाण्डुरं छत्रं शत्रुघ्नो जग्राह । (11) सुग्रीवविभीषणौ दिव्ये श्वेतचामरे दधतुः । (12) तस्मिन् काले इन्द्रः परमप्रीत्या धवलं मुक्ताहारं श्रीरामचन्द्राय समर्पयाञ्चकार । (13) एवं प्रजावत्सले, सत्यसंधे, धर्मात्मनि रामचन्द्रे राज्ये अभिषिच्यमाने, सर्वे जनपदाः आनन्दस्य परां कोटिं गताः। (14) तस्मिन् काले रामो दीनेभ्यो' भूरिद्रव्यं ददौ। (14) ततः सुग्रीवादयः सर्वे तेन यथार्ह पूजिताः। विसृष्टाश्च । (1) (चतुर्दश-संवत्सरान्ते) चौदह वर्षों के पश्चात् । (भ्राता लक्ष्मणेन सह) भ्राता लक्ष्मण के साथ। (2) (श्रीरामचन्द्रस्य मातरः) श्रीरामचन्द्र की माताएं। (सकलाः पौराः) नगर के सब लोग। (आनन्दस्य परां कोटिं अधिजग्मुः) आनन्द की उच्चतम अवस्था को प्राप्त हुए। (3) (दूतानाशु प्रेषय) सेवकों को शीघ्र भेजो। (4) (तस्मिन्कर्मणि नियोजयामास) उस कार्य में लगाए (समानिन्युः) लाए। (8) (पावनजलैः अभिषिषिचुः) शुद्ध जलों से अभिषेक किया। (13) इस प्रकार प्रजापालक, सत्यप्रतिज्ञ धर्मात्मा रामचन्द्र का राज्य-अभिषेक होने के समय लोग आनन्द की अन्तिम सीमा तक पहुंच गए। 1. पौराः+घ । 2. जलं+आनेतुम् । 3. सुग्रीवः+वानर । 4. तत:+वसिष्ठ.। 5. वसिष्ठः+मुनिः। 6. रामः+दीने। 7. दीनेभ्यः भूरि। 101
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy