SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ नमस्ते ! तव आज्ञाम् अनुसृत्य अहम् अत्र अद्य प्रातः एव आगतः। अस्मिन् नगरे यत् किंचिद् अपि द्रष्टव्यम् अस्ति तद् दृष्ट्वा श्वः वा परश्वः वा अस्मात् स्थानात् अमृतसरनगरं गमिष्यामि। यदा अहम् अमृतसरं गमिष्यामि तदा तव मित्रस्य चन्द्रकेतुशर्मणः कृते एकं ऊर्णावस्त्रं क्रेतुम् इच्छामि। __ भोः प्रियवयस्य ! एतद् दिल्लीनगरम् अतीव सुन्दरम् अस्ति। अस्य प्राचीनतमः इतिहासः च अतीव मनोरमः अस्ति। अद्य एव इन्द्रप्रस्थं तथा 'कुतुबमीनार' इति नाम्ना प्रसिद्ध स्थानम् अपि मया दृष्टम् । पाण्डवानां समये एतद् एव दिल्लीनगर ‘इन्द्रप्रस्थः' इति नाम्ना प्रसिद्धम् आसीत्। हस्तिनापुरं तु मेरठमण्डले अस्ति। ईदृशस्य प्राचीनतमस्य स्थानस्य दर्शनेन मम मनः प्रसन्नं भवति। पाण्डवकालस्य स्मरणम् अपि पुरुषम् आनन्दस्य पराकाष्ठां नयति। ____ अत्र तु अस्मिन् मासे शीतं न भवति । सूर्यस्य आतपेन धर्मः एव भवति। शीतकाले बहुशीतं तथा उष्णकाले अतीव धर्मः भवति। अत्र अहं महाशयस्य कुन्दनलालस्य गृहे स्थितः। महाशयः कुन्दनलालः अतीव धनाढ्यः पुरुषः अस्मिन् नगरे अस्ति। तस्य पुत्रः चन्दनलालनामकः गुणसम्पन्नः अस्ति। एष चन्दनलालः मया सह नगरदर्शनाय भ्रमति। अहं न अश्वरथेन भ्रमामि नापि 'मोटर'-इति नाम्ना प्रसिद्धेन तैलवाष्प-रथेन। परन्तु यद् द्रष्टव्यम् अस्ति तत् सर्वं पदातिना एव द्रष्टव्यम् इति मया निश्चयः कृतः। इदानीम् अलम् अतिविस्तरेण । मम अन्यत् पत्रम् अमृतसरात् प्रेषितं भविष्यति। इति शुभम्। भवदीयः वयस्यः आनन्दसागरः पुंल्लिंग पाठ 41 शब्द नपुंसकलिंग कुसुमम्-फूल। गरलम्-ज़हर। जलम्-पानी। 132 अर्भकः-बालक। ग्रामः-गाँव। चरणः-पाँव।
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy