SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ -प्रदीप अतस्तन्निर्णयो नैव, जातोऽद्यावधि शासने । ऐतिहासिकसामग्र्याः, अभावे निर्णयो न हि ३३१ सूरयो मानदेवाख्याः, तत्पट्टे चागतः खलु । ततो विमलचन्द्राख्याः , सूरयः पट्टदीपकाः ॥३३२॥ तत्प भूषयामासुः, उद्योतनाख्यसूरयः । वटगच्छ समुत्पत्तिः, तत एव प्रजायते ॥३३३॥ तत्स्वरूपं विशेषेण, कथ्यते ज्ञानहेतवे । श्रोतव्यं प्रेमभावेन, शासनोन्नतिकांक्षिभिः ३३४ पञ्चत्रिंशत्तमे पट्टे, सुधर्मस्वामिनां खलु । संजाताश्च महाभागाः, उद्योतनाख्य सूरयः ।३३५ मथुरा तीर्थयात्रा च, अनेकशः कृता च तैः। . सम्मेतशिखरस्यैव, पञ्चकृत्वश्च सा कृता ॥३३६॥ एकदा खलु तीर्थानां, यात्रां कृत्वा हि चाबुंदे । यात्रार्थ च समायाताः, तलहव्याश्च नैकटे ॥३३७ टेलिग्रामस्य सीमायां, वटस्याधस्तले तदा । स्थिताश्च सूरयस्तत्र, विश्रामकृतिहेतवे ॥३३८॥ तत्काले सुग्रहाणां च, योगस्तु जायते महान् । आचार्येणैव तत्काले, चिन्तितं निजमानसे ॥३३६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy