SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ योग [ ५३८ ] दुष्टकषायछेदाय, शुद्धचित्तं विधीयते । शुभ भावनिमित्तेन तच्छेदः सर्वथा भवेत् ॥ ३५६ शुद्धौषधि क्षमायाश्च, प्रयोगशुद्धियोगतः । क्रोधादि मोहतापश्च शीघ्रमेव विनश्यति ॥ ३५७ क्षमा चन्दन निःस्यन्दरसैः स्वान्तं च सिच्यताम् । दयावल्लिवितानानां मण्डपः फुल्लितो भवेत् ३८ चिदानन्दमयो देहः, चेतनस्य सुकोमलः । क्रोधाग्निदाहयोगेन, भस्मीभूतः प्रजायते ॥ ३५६ ॥ तथा यत्नश्च कर्त्तव्यः, यथा न स्याद्विनाशता । अपूर्वशुद्धदेहस्य रक्षणं परमं मतम् ॥ ३६०॥ बिना खेदेन शान्त्या च सुखसाम्राज्यता भवेत् । यादृशं कारणं चैव कार्यं च तादृशं भवेत् ॥ ३६१॥ मानमहीधराणां च शिखराण्यष्टकानि वै ॥ तत्रारोहिमनुष्याणां शुद्धा लोकः कथं भवेत् ॥३६२॥ पविधातेन मानपर्वतछेदनम् । - मृदुता क्रियतां लघुकालेन, तदाश्चर्यं भवेत्खलु ॥३६३ ॥ संसाराटविमध्येषु, मायावल्लिगृहं खलु । मूढ़ेन तस्य सङ्गन, ज्ञाननेत्रं विनाशितम् ॥३६४॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy