________________
- प्रदीप
[ ५३७]
मोहतिमिरमग्नानामन्धकारोदयः सदा । मिथ्याज्ञानं च मूढान, रागद्व ेषविवर्धनम् ॥३४७।। रोगिणां च यथा क्षीरं, सन्निपाताय जायते । भाववैराग्यपुष्टित्वे, समता निश्वला भवेत् ॥३४८ ममता पङ्कता चातः, सर्वथा परिणश्यति । भावज्वरेण पुष्टां च, दाहतृष्णां, विनाशयेत् ३४६ विवेकगारुडीमन्त्रः, रागाहिविषनाशनम् । सर्वथा शान्ति सद्भावः, तत एव प्रजायते ॥ ३५० अहो मोहस्य माहात्म्यमज्ञानिना न ज्ञायते । ज्ञानिना सर्वरूपेण ज्ञातं ततो न चित्रकम् ३५१ रागाहिविषनाशाय, विवेकमन्त्रतां भज । भववनसमुच्छेदः, सर्वथा परिजायते ॥ ३५२ || पुष्करावर्त्तसादृश्ये, धर्मे हर्षविशालता । तथा द्वेषहुताशेन, चिन्तातापस्तु जन्यते ॥ ३५३ ॥ यथा यथा च संसारे, वासना मोहहेतुका । जायते च तथा नैव, शुद्धभावः कदाचन ॥ ३५४ ॥ विषयविषरूपश्च भववासोऽपि दोषकृत् ।
घोरकषायभावश्च तदा तु प्रकटीयते ॥ ३५५॥