________________
mmmmmmmmmmmm
[ ५१६ ]
योगयत्रैव जैनसिद्धान्तानुकूलसर्ववस्तुता । सर्वज्ञाऽऽज्ञापि तत्रैव, प्राधान्येन विबुध्यताम् ।१६८॥ गुणपर्यायरूपेण युक्तं तत्त्वं च सर्वदा । उत्पादव्ययध्रौव्येण, युक्तं तत्त्वं मतं खलु ॥१६॥ ताहक तत्त्वस्वरूपाणां, चिन्तनं येन ध्यानतः। आज्ञाप्राधान्यरूपेण, आज्ञाविचयतोच्यते ॥१७॥ प्रमाणेन दृढीभूतं, नयनिक्षेपतस्तथा । सप्तभङ्ग या विशुद्धं तत् स्थित्युत्पादव्ययान्वितम् १७ तत्तत्त्वं परिशुद्ध स्याज्जीवाजीवस्वरूकम् । सर्वज्ञप्रभुणा प्रोक्तं गुम्फितं गणधारिभिः ॥१७२॥ तादृशं श्रुतज्ञानं, तच्छब्दार्थपरिपूर्णकम् । कुतर्कैश्च विहीनं तद्विश्वविश्वप्रकाशकम् ॥१७॥ उत्सर्गेणापवादेन, निश्चयव्यवहारतः । आगमादिकपञ्चाख्यैः, व्यवहारैरलंकृतम् ॥१७४॥ द्रव्यभावप्रभेदेन, सादिसान्तादिभेदतः। युक्तं चैवागमं ज्ञेयं, वीतरागैः प्ररूपितम् ॥१७॥ चतुर्दशविभेदेन, विंशतिभेदतस्तथा। विभिन्न परिज्ञातव्यं, परिमुक्तं विरोधतः ॥१७॥