SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ [४६६ ] योगस्थानादिपञ्चयोगानामधिकारी प्रदर्श्यते । देशतः सर्वतश्चैव, यमिनां स्थानवर्णको ॥६६॥ क्रियारूपौ तु द्वौ योगौ, तावेव चाधिकारिणौ । वस्तुतो यमिनां चैव, योगानांसम्भवः सदा ॥७॥ चारित्रहीनजीवे च, सम्यग्दृष्टित्वसंयुते । योगानां बीजमानं तु, विज्ञेयं कस्यचिन्मते ॥७॥ क्रियाज्ञानस्वरूपौ च, यादृशौ तादृशौ च तौ। किन्तु चारित्रमोहानां, क्षयोपशमहेतुतः ॥७२॥ अवश्यं प्रकटीयेते, तौ द्वौ योगौ च साधुषु । अतश्चारित्रवन्तस्ते, सम्मताश्चाधिकारिणः ॥७३॥ अनेन कारणेनैव, हरिभद्रेण सूरिणा। योगविन्दुषु चाध्यात्मसमता ध्यानभावना ॥७४॥ वृत्तिसंक्षेपता रूपा, सम्पत्तिः पञ्चयोगिषु । यदि चारित्रवत्सु चेद्योगसम्पत्तिरुच्यते ॥७॥ तदा निश्चयदृष्ट्या च, यत्र चारित्रहीनता । तत्र तु व्यवहारेण, श्राद्धसाधुक्रियावताम् ॥७६॥ तादृक् क्रिया विधाने च, को लाभः परिजायते । तदुत्तरजिज्ञासायां, समाधानं विधीयते ॥७७॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy