SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ [१६६ ] योगयस्य तेषां न विज्ञानमकार्ये स प्रवर्तते । अकृत्यानाञ्च कारित्वे, प्रपतति स दुर्गतौ ॥२६०॥ विशेषज्ञस्वरूप आत्मनो गुणदोषौ च, जानाति स विशेषवित् । ज्ञात्वा गुणे प्रवर्तेत, दोषांश्च प्रतिक्रामति ॥२६१॥ स्व प्रवृत्तित्व विज्ञाने, शक्तिर्येषां न विद्यते । पशुसमाश्च ते ज्ञेयाः, शृङ्गपुच्छविहीनकाः ॥२६॥ इहोपपत्तिर्ममकेन कर्मणा, कुतःप्रयातव्यमितो भवादिति । विचारणायस्य न जायते हृदि, ___ कथं स धर्मप्रवणो भविष्यति ॥२६३॥ जानन्ति चोपकारं ये, विस्मरन्ति कदापि न । सन्तस्ते विरलाज्ञेया,धर्मयोग्याश्च ते मताः।२६४॥ . कृतघ्नस्वरूपं उपकारं न जानन्ति, प्रत्युत विघ्नकारिणः। स्वार्थसाधकसम्पूर्णाः, कृतघ्नाः परिकीर्तिता ॥२६॥ कृतघ्नं च कृतज्ञे च, भेदस्तु जघयोः सदा । जकारः स्वर्ग हेतुस्स्यात्,घकारः स्वभ्रदोमतः॥२६६।।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy