________________
-प्रदीप
[ १३५] -
तेन सम्पन्नतास्तेषाम्, न्यायसम्पन्न उच्यते । धम्र्मे व्ययस्य तेषां हि, क्रियते शुद्धभावतः ||७|| अन्यायार्जितवित्तानां व्ययो धम्र्मे भवेन्नहि । केनचिद् यदि क्रियेत, तदा तत्र कषायता ॥८॥ चौर्य्यादिकञ्च तत्रापि, गालिप्रदानकारणम् । न्यायालयेषु गन्तव्यं जायतेऽन्याययोगतः ॥e॥ गृहादावुपभोगेऽपि, स्वान्ते भीतिश्च जायते । समभावो यदा कुत्र, प्राप्येत न कदाचन ॥१०॥ अन्यायार्जित वित्तानां, अनुभूतं नृपैः फलम् । न्यायार्जितधनानाञ्च प्राप्त च श्रेष्टिनाफलम्॥११॥ तयोः कथानकं चैव, “धर्मदेशनशास्त्र के " । पूज्य गुरुवरेणैव, प्रोक्तं ततोवधार्य्यताम् ॥ १२॥ अन्यायफलकिंपाकः, अत्र परत्र भुज्यते । न्यायफलञ्च सौभाग्यं सर्वत्राप्यनुभूयते ॥ १३॥ शिष्टाचारनिरूपणं
व्रतज्ञानवयोवृद्धाः, प्रामाणिकाश्च सर्वदा । यैश्च सेवाकृता तेषां ते च शिष्टा उदाहृताः॥ १४॥ १ - धर्मदेशनात्मक ग्रन्थे