SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ॥ अष्टम प्रकाशः ॥ मार्गानुसारि गुणवर्णनं " कृष्यते चात्मक्षेत्रं च मार्गानुसारिभिर्हलैः । तदा सम्यक्त्व बीजस्य, वपनं जायते सदा ॥ १ ॥ बीजावापे हलं मुख्यं, कारणं प्रणिगद्यते । अतो मार्गानुसारित्वमवश्यमेव दर्श्यते ॥२॥ धर्ममार्गानुगन्तव्ये, मता मार्गानुसारिता । कदा तादृगवस्था च प्राप्यते इति दर्श्यते ॥३॥ पञ्चत्रिंशच्च भेदेन, न्यायसम्पन्नतादितः । स्वरूपं तस्य वक्तव्यं श्रूयतां धर्म्मभावतः ॥४॥ न्यायसंपन्नविभवस्वरूपं स्वामिमित्रादि द्रोहाच्च, वश्वस्तानां प्रतारणात् । चौर्यादश्वासदर्थानां परित्यागश्च सर्वथा ॥५॥ स्वसवर्णानुकूल्येन, सद् व्यापारे प्रवर्तनम् । अर्थार्जनस्य चोपायः, स न्यायः प्रणिगद्यते ॥६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy