SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [७] तत्रैव योगरूपत्वं, आत्माभिमुखता सदा। निन्दकेस्तावके चैव, वर्तते समभावना ॥४०॥ विशुद्धाचार्यवर्येषु, योगिषु पाठकेषु च । सार्वाज्ञा दृढभावेन, शमभावश्च सर्वदा ॥४१॥ यादृशः परिदृश्येत, तादृशश्च परेषु न । यथाऽऽचार्यादिपूज्यानां, लक्षणं जैनदर्शने ॥४२॥ ऋषिणा वेदव्यासेन, प्रोक्तं कूर्मपुराणके। दर्शितं तादृशं तत्र, अत्रापि प्रविधीयते ॥४३॥ आचाराङ्गादिकाङ्गानां, एकादशाऽभिधावताम् । पाठादिकार्यकर्तृ णामुपाध्यायकता मता ॥४४॥ मुनिसंघेष मध्ये च, प्रायश्चित्तविधापनम् । रक्षणादिककार्य च, येनैव प्रविधीयते ॥४॥ विशुद्धाऽऽचार्यता तत्र, कूर्मपुराणशास्त्रतः । विचारोऽप्यत्र कर्तव्यः बुध्यनुसारतः खलु ॥४६॥ आचारांगादिशास्त्राणि, परत्र सन्ति नैव च । तेषामङ्गत्वनामापि, अन्यत्र दृश्यते नहि ॥४७॥ वेदाङ्गानि च षट् तत्र, एकादश न सन्ति वै । शिक्षाकल्पौ च ज्योतिष्क, छन्दोव्याकरणे तथा ॥ - योगाङ्के ५४५ पृष्टे ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy