SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । ४३१ शय्यादीनि स्थितिप्रकल्प्यानि, अथवा स्थितिश्च मासकल्पादिका प्रकल्प्यानि च पिण्डादीनि स्थितिप्रकल्प्यानि तानि अइयंचिय अइयंचिय त्ति अत्यच्य अत्यच्य, अतिक्रम्यातिक्रम्येत्यर्थः, प्रतिषेवते तदन्यानीति गम्यते, अथ सङ्घाटकादिः साधुरेवं पर्यालोचयति-यथा नैतत् प्रतिषेवितुमुचितं गुरुनॊ बाह्यौ करिष्यति, तत्रेतर आह– से इति तदकल्प्यजातं हंदेति कोमलामन्त्रणं वचनं हमित्यकारप्रश्लेषादहं प्रतिषेवामि किं मम स्थविरा: गुरव: करिष्यन्ति ?, न किञ्चित्तै रुष्टैरपि मे कर्तुं शक्यते इति बलोपदर्शनं पञ्चममिति । ___ पारंचियं ति दशमप्रायश्चित्तभेदवन्तमपहृतलिङ्गादिकमित्यर्थः, [कुर्वन्नातिक्रामति सामायिकमिति गम्यते । कुले चान्द्रादिके वसति, गच्छवासीत्यर्थः,] तस्यैव कुलस्य भेदायाऽन्योन्यमधिकरणोत्पादनेनाऽभ्युत्थाता भवति यतत इत्यर्थः इत्येकम्, एवं गणस्यापीति द्वितीयम्, तथा हिंसां वधं साध्वादेः प्रेक्षते गवेषयतीति हिंसाप्रेक्षीति तृतीयम्, हिंसार्थमेवापभ्राजनार्थं वा छिद्राणि प्रमत्तताः प्रेक्षत इति छिद्रप्रेक्षीति चतुर्थम्, अभीक्ष्णमभीक्ष्णं पुन: पुनरित्यर्थः प्रश्ना अङ्गुष्ठ-कुड्यप्रश्नादय: सावद्यानुष्ठानपृच्छा वा त एवायतनान्यसंयमस्य प्रश्नायतनानि प्रयोक्ता भवति, प्रयुक्त इत्यर्थः इति पञ्चमम् । [सू० ३९९] आयरियउवज्झायस्स णं गणंसि पंच वुग्गहट्ठाणा पन्नत्ता, तंजहा-आयरियउवज्झाए णं गणंसि आणं वा धारणं वा नो सम्मं पउंजेत्ता भवति १, आयरियउवज्झाए णं गणंसि अधारातिणियाते कितिकम्मं वेणतितं नो सम्मं पउंजेत्ता भवति २, आयरियउवज्झाते गणंसि जे सुतपज्जवजाते धारेति ते काले काले णो सम्ममणुप्पवातेत्ता भवति ३, आयरियउवज्झाए गणंसि गिलाण-सेहवेयावच्चं नो सम्ममन्भुढेत्ता भवति ४, आयरियउवज्झाते गणंसि अणापुच्छितचारी यावि हवइ, नो आपुच्छियचारी ५ । आयरियउवज्झायस्स णं गणंसि पंचावुग्गहट्ठाणा पन्नत्ता, तंजहाआयरियउवज्झाए गणंसि आणं वा धारणं वा सम्मं पउंजित्ता भवति १, एवमधारातिणिताते [कितिकम्मं वेणतितं सम्मं पउंजित्ता भवति २,]
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy