SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ४३० कर्म वा वैयावृत्यं भक्तादिभिर्धर्मोपग्रहकारिवस्तुभिरुपग्रहकरणमाचार्यवैयावृत्यम्, तत् कुर्वाणो विदधदिति, एवमुत्तरपदेष्वपि । नवरमुपाध्याय: सूत्रदाता । स्थविरः स्थिरीकरणात् । तपस्वी मासक्षपकादिः । ग्लान: अशक्तो व्याध्यादिभिरिति । तथा सेह त्ति शिक्षकोऽभिनवप्रव्रजितः । साधर्मिकः समानधर्मा लिङ्गत: प्रवचनतश्चेति । कुलं चान्द्रादिकं साधुसमुदायविशेषरूपं प्रतीतम् । गण: कुलसमुदाय: । सङ्घो गणसमुदाय इत्येवं सूत्रद्वयेन दशविधं वैयावृत्यमाभ्यन्तरतपोभेदभूतं प्रतिपादितमिति । उक्तं च आयरिय-उवज्झाए थेर-तवस्सी-गिलाण-सेहाणं । साहम्मिय-कुल-गण-संघसंगयं तमिह कायव्वं ॥ [ ] ति । [सू० ३९८] पंचहिं ठाणेहिं समणे णिग्गंथे साहम्मितं संभोतितं विसंभोतितं करेमाणे णातिक्कमति, तंजहा-सकिरितट्ठाणं पडिसेवेत्ता भवति १. पडिसेवेत्ता णो आलोतेति २, आलोतेत्ता णो पट्ठवेति ३, पट्ठवेत्ता णो णिव्विसति ४, जाइं इमाई थेराणं ठितिपकप्पाइं भवंति ताई अतियंचिय अतियंचिय पडिसेवेति, से हंदऽहं पडिसेवामि किं मं थेरा करिस्संति ५ । ___ पंचहिं ठाणेहिं समणे निग्गंथे साहम्मितं पारंचितं करेमाणे णातिक्कमति, तंजहा-कुले वसति, कुलस्स भेदाते अब्भुढेत्ता भवति १, गणे वसति, गणस्स भेदाते अब्भुटेत्ता भवति २, हिंसप्पेही ३, छिद्दप्पेही ४, अभिक्खणं अभिक्खणं पसिणाततणाइं पउंजित्ता भवति ५ । टी०] संभोइयं त्ति सम्भोगिकम् एकभोजनमण्डलीकादिकं विसम्भोगिकं मण्डलीबाह्यं कुर्वन्नातिक्रामति आज्ञामिति गम्यते, उचितत्वादिति । सक्रियं प्रस्तावादशुभकर्मबन्धयुक्तं स्थानम् अधिकृत्यविशेषलक्षणं प्रतिषेविता भवतीत्येकम्, प्रतिषेव्य गुरवे नालोचयति न निवेदयतीति द्वितीयम्, आलोच्य गुरूपदिष्टप्रायश्चित्तं न प्रस्थापयति कर्तुं नारभत इति तृतीयम्, प्रस्थाप्य न निर्विशति न समस्तं प्रवेशयत्यतीति चतुर्थम्, यानीमानि सुप्रसिद्धतया प्रत्यक्षाणि स्थविराणां स्थविरकल्पिकानां स्थितौ समाचारे प्रकल्प्यानि प्रकल्पनीयानि योग्यानि विशुद्धपिण्ड
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy