________________
४२६
निच्चं त्ति नित्यं सदा वर्णितानि फलत:, कीर्त्तितानि संशब्दितानि नामत:, बुइयाइं ति व्यक्तवाचोक्तानि स्वरूपतः, प्रशस्तानि प्रशंसितानि श्लाषितानि शंसु स्तुतौ [पा० धा० ७२८] इति वचनात्, अभ्यनुज्ञातानि कर्त्तव्यतया अनुमतानि भवन्तीति, अयं च सूत्रोत्क्षेप: प्रतिसूत्रं वैयावृत्यसूत्रं यावद् दृश्य इति, तत्र क्षान्त्यादय: क्रोधलोभ-माया-माननिग्रहा: तथा लाघवमुपकरणतो गौरवत्रयत्यागतश्चेति, तथाऽन्यानि सच्चेत्यादि त्रिसूत्री सद्भयो हितं सत्यम् अनलीकम्, तच्चतुर्विधम्, यतोऽवाचि
अविसंवादनयोग: कायमनोवागजिह्मता चैव । सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र ॥ [प्रशम० १७४] इति । तथा संयमनं संयमो हिंसादिनिवृत्तिः, स च सप्तदशविध:, तदुक्तम्पुढवि-दग-अगणि-मारुय-वणप्फइ-बितिचउपणिंदि-अजीवे । पेहोपेहपमजणपरिट्ठवणमणोवईकाए ॥ [दशवै० नि० ४६], तथा तप्यतेऽनेनेति तपः, यतोऽभ्यधायिरस-रुधिर-मांस-मेदो-ऽस्थि-मज-शुक्राण्यनेन तप्यन्ते । कर्माणि वाऽशुभानीत्यतस्तपो नाम नैरुक्तम् ॥ [ तच्च द्वादशधा, यथाऽऽहअणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि य अन्भिंतरओ तवो होइ ॥ [दशवै० नि० ४७-४८] इति । चियाए त्ति त्यजनं त्यागः, संविग्नैकसम्भोगिकानां भक्तादिदानमित्यर्थः, गाथे चात्रतो कयपच्चक्खाणो आयरियगिलाणबालवुड्डाणं । देजाऽसणाइ संते लाभे कयवीरियायारो ॥ संविग्गअन्नसंभोइयाण देसिज सड्ढगकुलाणि । अतरंतो वा संभोइयाण देसे जहसमाही ॥ [पञ्चव० ५३७-५३८, पञ्चा० ५।४०-४१] इति ब्रह्मचर्ये मैथुनविरमणे तेन वा वासो ब्रह्मचर्यवास इत्येष पूर्वोक्तैः सह दशविध: श्रमणधर्म इति, अन्यत्र त्वयमेवमुक्त: