SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । ४२५ पंच ठाणाइं जाव भवंति, तंजहा-दंडायतिते, लगंडसाती, आतावते, अवाउडते, अकंड्यते । [टी०] अनन्तरं शरीराणि प्ररूपितानीति शरीरिविशेषगतान् धर्मविशेषान् पंचहिं ठाणेहीत्यादिनाऽऽर्जवसूत्रान्तेन ग्रन्थेन दर्शयति, सुगमश्चायम्, नवरं पञ्चसु स्थानकेषु आख्यानादिक्रियाविशेषलक्षणेषु पुरिमा भरतैरावतेषु चतुर्विंशतेरादिमास्ते च पश्चिमकाश्च चरमा: पुरिम-पश्चिमकास्तेषां जिनानाम् अर्हतां दुग्गमं ति दुःखेन गम्यत इति दुर्गमम्, भावसाधनोऽयं कृच्छ्रवृत्तिरित्यर्थः, तद् भवति विनेयानामृजुजडत्वेन वक्रजडत्वेन च, तानि चेमानि तद्यथेत्यादि, इह चाख्यानं विभजनं दर्शनं तितिक्षणमनुचरणं चेत्येवं वक्तव्येऽपि येषु स्थानेषु कृच्छ्रवृत्तिर्भवति तानि तद्योगात् कृच्छ्रवृत्तीन्येवोच्यन्ते इति कृच्छ्रवृत्तिद्योतकदुःशब्दविशेषितानि कर्मसाधनशब्दाभिधेयान्याख्यानादीनि विचित्रत्वाच्छब्दप्रवृत्तेराह । दुआइक्खमित्यादि, तत्र दुराख्येयं कृच्छ्राख्येयं वस्तुतत्त्वम्, विनेयानां महावचनाटोपप्रबोध्यत्वेन भगवतामायासोत्पत्तेरित्येवमाख्याने कृच्छ्रवृत्तिरुक्ता, एवं विभजनादिष्वपि भावनीया, तथा आख्यातेऽपि तत्र दुर्विभजं कष्टविभजनीयम्, ऋजुजडत्वादेरेव तद् भवतीति दुःशकं शिष्याणां वस्तुतत्त्वस्य विभागेनावस्थापनमित्यर्थः, दुर्विभवमित्यत्र पाठान्तरे दुर्विभाव्यं दुःशका विभावना कर्तुं तस्येत्यर्थः, तथा दुप्पस्सं ति दुःखेन दर्श्यते इति दुर्दर्शम् उपपत्तिभिर्दुःशकं शिष्याणां प्रतीतावारोपयितुं [तत्त्वमिति भावः, दुतितिक्खं ति दुःखेन तितिक्ष्यते सह्यते इति दुस्तितिक्षं परीषहादि, दु:शकं परीषहादिकमुत्पन्नं तितिक्षयितुम्,] शिष्यं तत् प्रति क्षमां कारयितुमिति भाव इति, दुरणुचरं ति दुःखेनानुचर्यते अनुष्ठीयत इति दुरनुचरमन्तर्भूतकारितार्थत्वेन दु:शकमनुष्ठापयितुमित्यर्थः, अथवा तेषां तीर्थे दुराख्येयं दुविभजमाचार्यादीनां वस्तुतत्त्वं शिष्यान् प्रति, आत्मनापि दुर्दृशं दुस्तितिक्षं दुरनुचरमित्येवं कारितार्थं विमुच्य व्याख्येयम्, तेषामपि ऋजु-जडादित्वादिति । मध्यमानां तु सुगमम् अकृच्छ्रवृत्तिः, तद्विनेयानामृजुप्रज्ञत्वेनाल्पप्रयत्नेनैव बोधनीयत्वाद् विहितानुष्ठाने सुखप्रवर्तनीयत्वाच्चेति, शेषं पूर्ववत्, नवरमकृच्छ्रार्थविशिष्टता आख्यानादीनां वाच्या, तथा सुरनुचरं ति रेफः प्राकृतत्वादिति ।
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy